SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।। [कष्टं स्थाता ] 'कष हिंसायाम' (५०७ ) कष् । कषिस्यतीति । 'कषोऽनिटः' (५।३।३) क्तप्र० । 'कषः कृच्छ्र-गहने' (४|४|६७) इनिषेधः । [चिरमासिता ] 'आसिक् उपवेशने' (१११९) आस् । आसिता । 'णक-तृचौ' (५।१।४८) तृच्प्र० । ‘स्ताद्यशितोऽत्रोणादेरिट्’ (४।४।३२ ) इट् । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) डा० आ० । [मन्दं गन्ता ग्रामाय] ग्रामायेत्यत्र 'गतेर्नवाऽनाप्ते' (२।२।६३) चतुर्थी न स्यात्, मन्दशब्दात् ।।छ।। काला - Sध्वनोर्व्याप्तौ || २ |२| ४२ ॥ = [ कालाsध्वनोः ] कालश्च अध्वा च = कालाऽध्व (वा) नौ, तयोः कालाSध्वनोः, सप्तमी ओस् । [ व्याप्तौ ] व्याप्ति सप्तमी ङि । [ मासं गुडधानाः ] गुडेन मिश्रा धानाः = गुडधानाः । [ मासं कल्याणी] 'अण शब्दे' (२५९) अणू, कल्यपूर्व० । कल्यमणतीति कल्याणी । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । 'अणञेयेकण्-नञ्-स्रञ्-टिताम्' (२।४।२० ) ङीप्र० । अस्य यां लुक्' (२।४।८६) अलोपः । [मासमधीते] 'इंङ्क अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । समानानां ० ( १।२1१ ) दीर्घः । द्रव्य-गुण-क्रियादिभिर्व्याप्तिरत्यन्तसंयोगः । २५ = [मासस्य मासे वा द्वयहं गुडधानाः ] द्वि-अहन् । द्वयोरनोः समाहारः = द्वयहम् । 'द्विगोरन्ननोऽट्' (७।३।९९) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । द्वितीया अम् । [ मासस्य मासे वा एकरात्रं कल्याणी] एका चासौ रात्रिश्च = एकरात्रम् । संख्यातैक - पुण्य- वर्षा-दीर्घाच्च रात्रेरत्' ( ७।३।११९ ) अत्समासः । 'अवर्णवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः । Jain Education International [मासस्य मासे वा द्विरधीते] द्वि । द्वौ वारावस्य । 'द्वि-त्रि- चतुरः सुच्' (७।२।११०) सुच्प्र० । 'क्रियाविशेषणात् ' ( २।२।४१ ) अम् । 'अनतो लुप्' (१।४।५९ ) अम्लोपः । । छ । । द्वितीयाप्रकरणं समाप्तं दशभिः सूत्रैः ।। = सिद्धौ तृतीया || २ |२| ४३ ॥ [सिद्ध तृतीया ] सिद्धि सप्तमी ङि । त्रि । त्रयाणां पूरणी तृतीया । 'स्तृ च' (७।१।१६६) तीयप्र० -तृ आदेश: । 'आत्' (२।४।१८) आप् । [मासेन मासाभ्यां मासेर्वाऽऽवश्यकमधीतम् ] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते स्माऽस्मिन्निति । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) क्तप्र० → त । [क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् ] 'अधीतं पूर्ववत् । [मासमधीत आचारो नाऽनेन गृहीतः ] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते स्म । 'क्तक्तवतू’ (५।१।१७४) क्तप्र० । प्रथमा सि । 'सो रु: ' (२।१।७२ ) स० २० । 'ग्रही‍ उपादाने' (१५१७) ग्रह् । गृह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'ग्रह-ब्रस्च भ्रस्ज-प्रच्छः ' (४।१।८४) य्वृत् गृ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४|४|३४) दीर्घः इ० ई० ।। छ । । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy