________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका
.
[ग्रामं गच्छन् वृक्षमूलान्युपसर्पति] 'सृप्नुं गतौ' (३४१) सृप, उपपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[अजां नयति ग्रामम्] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णा नः' (२।३।९७) नी । वर्त्त तिव् । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[गां दोग्धि पयः] गो द्वितीया अम् । 'आ अम्-शसोऽता' (१।४।७५) आ । 'दुहीक क्षरणे' (११२७) दुह् । वर्त्तः तिव् । 'लघोरुपान्त्य०' (४।३।४) गु० ओ । 'भ्वादेर्दादेर्घः' (२।१९८३) ह० → घ० । 'अधश्चतुर्थात् त-थोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) घ० → ग० । पयस् द्वि० अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः ।
[शत्यः पटः] शत । शतेन क्रीतः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[आरूढवानरो वृक्षः] 'रुहं जन्मनि' (९८८) रुह, आयूर्व० । आरुह्यते स्म । 'श्लिष-शीङ्-स्था-55स-वस-जन-रुहजू-भजेः क्तः' (५।१।९) क्तप० → त । 'हो धुट्-पदान्ते' (२।१९८२) ह० → ढ० । 'अधश्चतुर्थात् त-थोर्धः' (२।१।७९) त० → ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः-पूर्वस्य दीर्घः ।
[दात्रेण लुनाति] 'दांवक् लवने' (१०७०) दा । दायतेऽनेनेति । 'नी-दाव-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पानहस्त्रट्' (५।२।८८) त्रटप्र० →त्र, तेन ।
[दानीयाय ददाति] 'डुदांग दाने' (११३८) दा । दीयतेऽस्मै आगताय । बाहुलकादनीयप्र०, तस्मै ।
[भीमाद बिभेति] 'जिभीक भये' (११३२) भी । बिभेति अस्मादिति भीमः । 'भीमादयोऽपादाने' (५।१।१४) इति, ‘भियः षोऽन्तश्च वा' (उणा० ३४४) किद् मप्र० ।
[ओदनः पक्त्वा भुज्यते देवदत्तेन] 'डुपचीं पाके' (८९२) पच् । पचनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र → त्वा । 'च-जः क-गम्' (२।१९८६) च० → क० ।
[कृतपूर्वी कटम्] कृतः(तं) पूर्व कटोऽनेनेति कृतपूर्वी । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इन्प्र० । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[भुक्तपूर्वी ओदनम् भुक्तं पूर्वं ओदनोऽनेनेति । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
ननु गौणान्नाम्नः कर्मणि द्वितीयेत्युक्तम्, अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादेः प्रधानत्वान्न ततो द्वितीया प्राप्नोतीत्याह- इह चेति ।।२।।
क्रियाविशेषणात् ।।२।२।४१।। [क्रियाविशेषणात] क्रियाया विशेषणं = क्रियाविशेषणं, तस्मात् ।
[ओदनस्य शोभनं पक्ता] 'डुपचीष पाके' (८९२) पच् । पचतीति । 'णक-तृचौ' (५।११४८) तृचप्र० → तृ । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा० → आ० । 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः । 'च-जः कगम्' (२।१1८६) च० → क० ।
[सुखं स्थाता] स्था (२।२।२०) सूत्रवत् । तिष्ठतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा सि । 'ऋदुशनस्-पुरदंशो०' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
TA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org