________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।।
सिच् । सिच्यतेऽनेनेति सेचनम् । ‘करणा-ऽऽधारे' (५।३।१२९) अनटप० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० → ए० ।
[अनु वनस्याऽशनिर्गता] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लं गतौ' (३९६) गम् । गच्छतीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।।छ।।
हेतु - सहार्थेऽनुना ।।२।२।३८।। [हेतुसहार्थे] सह लक्षणोऽर्थो यस्य सः = सहार्थः, हेतुश्च सहार्थश्च = हेतुसहार्थस्तस्मिन् । [अनुना] अनु तृतीया टा । 'ट: पुंसि ना' (१।४।२४) टा० → ना० ।
[जिनजन्मोत्सवमन्वागच्छन् सुराः] जिनस्य जन्म = जिनजन्म । जिनजन्मनि उत्सवः = जिनजन्मोत्सवस्तम् । अनु प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । अम (३९२) - द्रम (३९३) - हम्म (३९४) मीमृ (३९५) - 'गम्यूँ गतौ' (३९६) गम्, आङ्पूर्व० । ह्यस्तनी अन् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६) म० → छ० । ‘स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छ० → च० । 'लुगस्या०' (२।१।११३) अलोपः ।
[पर्वतमन्ववसिता सेना] पर्वत द्वि० अम् । अनु प्रथमा सि । 'अव्ययस्य' (३।२१७) सिलोपः । ‘पिंगट बन्धने' (१२८७) षि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सि, अवपूर्व० । अवसिनोति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । ‘आत्' (२।४।१८) आप् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः ।।छ।।
उत्कृष्टेऽनूपेन ।।२।२।३९।। [उत्कृष्टेऽनूपेन] उत्कृष्ट सप्तमी ङि । अनुश्च उपश्च = अनूपं, तेन ।
[उपोमास्वाति सङग्रहीतारः] उप अव्यउ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । ॥ उमा-कीर्तिः स्वातिरिवोज्ज्वला यस्याऽसौ, तम् । ‘ग्रहीश् उपादाने' (१५१७) ग्रह, संपूर्व० । संगृह्णन्तीत्येवंशीलाः । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० → तृ । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घत्वम् । ‘तृ-स्वसृ-नप्तनेष्टु०' (१।४।३८) आर् ।
उप जिनभद्रक्षमाश्रमणं व्याख्यातारः] 'ख्यांक प्रथने' (१०७१) ख्या, वि-आयूर्व० । व्याख्यान्तीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० →तृ । प्रथमा जस् । 'तृ-स्वसृ-नप्तृ-नेष्ट्र०' (१।४।३८) आर् ||छ।।
कर्मणि ||२।२।४०।। [कर्मणि] कर्मन् सप्तमी ङि ।
[आदित्यं पश्यति] 'दृशुं प्रेक्षणे' (४९५) दृश् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कुवुधिवु०' (४।२।१०८) पश्य ।
[अहिं लड्डयति] रघुङ् (६३७) - ‘लघुङ् गतौ' (६३८) लघ् । ‘उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । लवमानं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए० । 'एदैतोऽयाय' (१।२।२३) अय् ।
P॥ उमा - जननी, स्वातिः - पिता यस्य सः = उमास्वातिः, तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org