SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अभितो ग्रामं क्षेत्राणि] उभयस्मात् = अभितः । 'पर्यभेः सर्वोभये' (७।२।८२) तस्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२१७) सिलोपः । २२ [ परितो ग्रामं क्षेत्राणि] सर्वस्मात् परितः । 'पर्यभः सर्वोभये' (७।२।८२) तस्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ॥छ । लक्षण-वीपस्येत्थम्भूतेष्वभिना || २ |२| ३६ || [लक्षणवीप्स्येत्थम्भूतेष्वभिना ] इत्थमग्रे 'भू सत्तायाम् ' (१) भू । इत्थम्भवति स्माऽस्मिन् मात्रादाविति । 'अद्यर्थाच्चाधारे' त । लक्षणं च वीप्स्यं च इत्थम्भूतश्च = लक्षणवीप्स्येत्थम्भूतास्तेषु । अभि तृतीया टा । 'टः पुंसि ना० । 'इवर्णादे० ' (१।२।२१) वत्वम् । (५।१।१२) क्तप्र० ना' (१।४।२४) टा० [वृक्षमभि विद्योतते विद्युत् ] वृक्ष द्वितीया अम् । अभि प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । 'धुति दीप्ती' (९३७) द्युत्, विपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० ओ० । 'धुति दीप्ती' (९३७) द्युत्, विपूर्व० । विद्योतनं = विद्युत् । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० (?) । ('दिद्युद्ददृ०' (५।२।८३) क्विप्प्र ० ) । ' ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः ( ? ) । [वृक्षं वृक्षमभि सेकः ] वृक्ष ( २ ), अभि प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । ' षिचींत् क्षरणे' (१३२१ ) षिच् । 'षः सोऽष्टयै- ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । सेचनं = सेकः । भावा- Sकर्त्रीः' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० ए० । 'क्तेऽनिटश्च - जोः क-गौ घिति' (४।१।१११ ) च० क० । [साधुर्देवदत्तो मातरमभि] मातृ द्वि० अम् । 'तृ स्वसृ नप्तृ नेष्टृ ० ' (१।४।३८ ) आर् । अभिना साध्यसाधनभावसंबंधो द्योत्यते । [ यत्र ममाऽभि स्यात् तद् दीयताम्] 'असक् भुवि' (११०२) अस् । सप्तमी यात् । 'श्ना- ऽस्त्योर्लुक्' (४।२।९० ) अलोपः । ‘डुदांग्क् दाने’ (११३८) दा । पञ्चमी ताम् । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० ई० |छ। भागिनि च प्रति- पर्यनुभिः || २|२|३७|| [ भागिनि] 'भर्जी सेवायाम्' (८९५) भज् । भजनं = भागः । 'भावाऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च - जो: क- गौ घिति' ( ४191999 ) ज०ग० । भागोऽस्याऽस्तीति भागी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपस्तस्मिन् । [प्रतिपर्यनुभिः ] प्रतिश्च परिश्च अनुश्च = प्रतिपर्यनवस्तैः । [ यदत्र मां प्रति, मां परि, मामनु स्यात् स दीयताम्] अस्मद् 'लोकात्' (१1१1३) अद् अग्रे विश्लेषिय | द्वितीया अम् । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ' (२19199) म० । 'अमौ मः ' (२।१।१६) म० । 'युष्मदस्मदो: ' (२।१।६) द० → आ० । ‘समानानां०' (१।२।१) दीर्घः । प्रति प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । 'असक् भुवि' (११०२) अस् । सप्तमी यात् । ‘श्ना-ऽस्त्योर्लुक्' (४।२।९० ) अलोपः । तद् प्रथमा सि । 'डुदांग्क् दाने' (११३८) दा । पञ्चमी ताम् । 'क्यः शिति' (३।४।७०) क्यप्र० । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० ई० । [वृक्षं प्रति, वृक्षं परि, वृक्षमनु विद्योतते विद्युत् ] विद्युत् प्रथमा सि । 'दीर्घड्या० ' (१।४।४५) सिलोपः । [वृक्षं वृक्षं प्रति, वृक्षं वृक्षं परि, वृक्षं वृक्षमनु सेचनम् ] 'षिचींत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्टयै ० ' (२।३।९८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy