SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पाद: ।। २१ → अत् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'पदस्य' (२।१८९) तलोपः । हे पचमान !] पचते = पचमानस्तस्य संबोधनं हे पचमान ! । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनशप्र० → आन | 'अतो म आने (४|४|११४) मोऽन्तः । 'कतर्यनद्भ्यः शव' (३।४७१) शव । प्रथमा सि । 'अदेतः स्यमोलुंक' (१।४।४४) सिलोपः ।।छ।। गौणात् समया-निकषा-हा- धिगन्तरा-ऽन्तरेणा-ऽति-येन-तेनैर्द्वितीया ।।२।२।३३।। [गौणात गौण पञ्चमी उसि ।। समयानिकषाहाधिगन्तराऽन्तरेणाऽतियेनतेनैः] समया च निकषा च हा च धिग च अन्तरा च अन्तरेण च अति च येन च तेन च = समया......, तैः । [द्वितीया] द्वि । द्वयोः पूरणी । 'द्वेस्तीयः' (७।१।१६५) तीयप्र० । 'आत्' (२।४।१८) आप्प० → आ । [येन पश्चिमां गतः] येन लक्षणे पश्चिमां लक्ष्यीकृत्य गतः । तेन पश्चिमां नीतः] तेन लक्षणे पश्चिमां लक्ष्यीकृत्य नीतः । [अन्तरा गार्हपत्यमाहवनीयं च वेदि:] गृहपतिना संयुक्तः । 'हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या- गार्हपत्यजन्य-धर्म्यम्' (७।१।११) इत्यनेन निपातः ।।छ।। द्वित्वेऽधो-ऽध्युपरिभिः ।।२।२।३४।। [द्वित्वे] द्वि । द्वयोर्भावः = द्वित्वम् । 'भावे त्व-तल' (७।१।५५) त्वप्र० । तस्मिन् । [अधोऽध्युपरिभिः] अधश्च अधिश्च उपरिश्च = अधोऽध्युपरयस्तैः । [अधोऽधो ग्रामं ग्रामाः] अधस् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । 'सामीप्येऽधोऽध्युपरि' (७।४७९) द्वित्वम् । [अधः प्रासादस्य] 'षलुं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्टयै-ष्टिव-प्वष्कः' (२।३।९८) सद, प्रपूर्व० । प्रसीदन्ति अस्मिन् जगज्जननयनमनांसीति प्रासाद: । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । 'घड्युपसर्गस्य बहुलम्' (३।२।८६) प्रशब्दस्य दीर्घः । 'ञ्णिति'(४।३।५०) उपान्त्यवृद्धिः । तस्य ।।छ।। सर्वोभया-ऽभि-परिणा तसा ||२२|३५|| सर्वोभयाऽभिपरिणा] सर्वश्च उभयश्च अभिश्च परिश्च = सर्वोभयाऽभिपरि, तेन = सर्वोभयाऽभिपरिणा । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [तसा] तस् तृतीया टा । [सर्वतो ग्राम वनानि सर्व । सर्वस्मात् = सर्वतः । 'किमद्वयादि-सर्वाद्यवैपुल्यबहोः पित् तस्' (७।२।८९) तस्प० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । वन प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । [उभयतो ग्रामं वनानि] उभय । उभयस्मात् = उभयतः । 'किमद्वयादिसर्वाद्य०' (७।२।८९) तस्प० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । वन प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy