________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[पाचकः] 'डुपची पाके' (८९२) पच् । पचतीति पाचकः । ‘णक-तृचौ' (५।१।४८) णकप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
. [दण्डी] दण्डो विद्यते यस्याऽसौ दण्डी । 'अतोऽनेकस्वरात्' (७।२।६) इनप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः ।
[विषाणी] विषाण 'नासिकोदरौष्ठ जवा-दन्त-कर्ण-शृङ्गा-ऽङ्ग-गात्र-कण्यत्' (२।४।३९) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ।
[पञ्चालाः] पञ्चालेषु भवाः = पञ्चालाः (?) पञ्चालानां राष्ट्रस्य राजानः, पञ्चालस्य राज्ञोऽपत्यानि वा । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लोपः ।
स्वार्थस्य व्यवच्छेद्यमित्यत्र ‘कर्तरि' (२।२।८६) षष्ठी स्वार्थेन व्यवच्छिद्यते, शक्त्यादीत्यत्राऽऽदिशब्दात् स्वार्थादिपरिग्रहः, यस्यां त्यादिभिरित्यवतीति तिवादयो विभक्तयः, आदिशब्दात् कृत्-तद्धित-समासाः, व्यतिरेकविभक्तय इति नामार्थान् अतिरेके आधिक्ये द्वितीयाद्या व्यतिरेकविभक्तयः, तत्पूर्वके(क)संबध इति क्रियाकारकपूर्वकः ।।
[स्नानीयं चूर्णम्] 'ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सा । स्नानं क्रियतेऽनेन नानीयः । बाहुलकादनीयप्रत्ययः ।
[दानीयो ब्राह्मणः] 'डुदांगक दाने' (११३८) दा । दीयतेऽस्मै इति दानीयः । बाहुलकादनीयप्रत्ययः ।
[गोनोऽतिथिः] गो ‘हनंक हिंसा-गत्योः' (११००) हन् । गौर्हन्यतेऽस्मै आगताय बाहुलकाद् 'ब्रह्माऽऽदिभ्यः' (५।१८५) टकप० → अ । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्डिति लुक्' (४।२।४४) अलोपः । 'हनो हुनो नः' (२।१११२) घनादेशः ।।
[प्रस्रवणो गिरिः] इं (११) - इं (१२) - हूँ (१३) - शुं (१४) - ‘सुं गतौ' (१५) सु, प्रपूर्व० । प्रसवति जलमस्मादिति प्रस्रवणः । 'भुजि-पत्यादिभ्यः कर्मा-ऽपादाने' (५।३।१२८) अनटप्र० → अन । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० उ० → ओ० । ‘ओदौतोऽवाव्' (१।२।२४) अव् ।।
[भयानको व्याघ्रः] 'ञिभीक् भये' (११३२) भी । बिभेति जनोऽस्मादिति भयानकः । 'शी-भी-राजेश्चानकः' (उणा० ७१) आनकप० । 'नामिनो गुणो०' (४।३।१) गु० ई० → ए० । ‘एदैतोऽयाय्' (१।२।२३) अय् ।
__ [स्थानीयं नगरम्] 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । ‘षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' न्या० सं० (१।२९) स्था । तिष्ठन्ति जना अस्मिन्निति स्थानीयम् । बाहुलकादनीयप्र० ।।
गोदोहनी पारी गावो दुह्यन्तेऽस्यामिति गोदोहनी । 'करणा-5ऽधारे' (५।३।१२९) अनटप्र०→अन | 'अणजेयेकणनञ् - सञ् - टिताम्' (२।४।२०) 'डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ।।छ।।
आमन्त्र्ये |२२|३२|| [आमन्त्र्ये] ‘मन्त्रिण गुप्तभाषणे' (१८४०) मन्त्र । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प० । 'अतः' (४।३।८२) अलोपः । आमन्त्र्यते इत्यामन्त्र्यम् । 'य एच्चातः' (५।११२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपस्तस्मिन् ।
हे देवदत्त !] तेन देवदत्तशब्देन देवदत्तत्वेन वा सह संबंधस्ततसंबंधः, प्रसिद्धस्तत्संबंधो यस्य हे देवदत्त ! । प्रथमा सि । 'अदेतः स्यमोलुंक' (१।४।४४) सिलोपः ।
हे पचन !] 'डुपचीं पाके (८९२) पच् । पचतीति पचन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org