________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [चैत्रश्च मैत्रश्च घटं कुर्वाते, चैत्रमैत्रो घटं कुर्वाते] 'डुकृंग् करणे' (८८८) कृ । वर्त्त० आते । 'कृग्-तनादेरुः ' ( ३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० उ० । 'इवर्णादे० ' (१।२।२१) व० ।
२६९
[त्रिंशच्चत्वारिंशती] त्रिंशद् देवदत्ताय दीयतां चत्वारिशच्चैत्रायेति त्रिंशच्चत्वारिंशती ।
[ षष्टिसप्तत्यशीतयः ] षष्टिमैत्राय दीयतां, सप्ततिश्चैत्राय, असी (शी ) तिर्देवदत्ताय = षष्टिसप्तत्यसी (शी ) तयः ॥ छ || समानामर्थेनैकः शेषः ।।३।१।११८ ।।
[समानाम् ] सम षष्ठी आम् । 'ह्रस्वाऽऽपश्च' (१।४।३२ ) नाम् । 'दीर्घो नाम्यतिसृ- चतसृ-प्रः ' (१।४।४७) दीर्घः । अतन्त्रमप्रधानमित्यर्थः ।
[लोहिताक्षी रक्ताक्षौ ] लोहिताक्षिश्च रक्ताक्षिश्च समासान्तः । 'अवर्णेवर्णस्य ( ७|४|६८) इलोपः । [ प्लक्षन्यग्रोधी ] प्लक्षश्च न्यग्रोधश्च । [धवखदिरपलाशाः ] धवश्च खदिरश्च पलाशश्च ॥छ ।
स्यादावसंख्येयः || ३|१ ।११९ ।।
[स्यादावसंख्येयः ] सिरादिर्यस्याऽसौ स्यादिस्तस्याम् ( तस्मिन्) । न संख्येयोऽसंख्येयः । पूर्वत्राऽर्थेन समानत्वं रूपकृतो भेद एव सरूपार्थं वचनमिदम् ।
[ पादाः ] पादश्च पर्यंतपर्वतः पादश्च चरणः, पादश्च चतुर्थांशः
लोहिताक्षौ रक्ताक्षौ । 'सक्त्थ्यक्ष्णः स्वाङ्गे' (७|३|१२६) टः
[ माषाः ] माषश्च माषश्च माषश्च = माषाः ।
[ श्येन्यौ] श्येत 'श्येतैत - हरित०' (२।४।३६) डीप्र० तस्य न० । द्वितीयपक्षे 'जातेरयान्त०' (२।४।५४) डी । श्येनी च श्येनी च ।
[हरिण्यौ] हरित । ' श्येतैत- हरित - भरत - रोहिताद् वर्णात् तो नश्च' (२।४।३६) डीप्र० तस्य न० । द्वितीय क्षे 'जातेरयान्त०' (२।४।५४ ) ङी । हरिणी च हरिणी च ।
[ रोहिण्यौ ] रोहिणी च रोहिणी च ।
[मातृभ्याम् ] माता च २ = [मातृभिः ] माता च ३ =
== मातरस्ताभ्यः ।
[मातृभ्यः ] माता च ३ [मात्रोः ] माता च २ = मातरौ तयोः ।
[मातृषु ] माता च ३ = मातरस्तासु । । छ । ।
मातरौ, ताभ्याम् । मातरस्ताभिः ।
Jain Education International
श० म० न्या० - " पादो भासि तुरीयांशे, गिरेः प्रत्यन्तपर्वते ।
= पादाः ।
For Private
पादा-ऽङ्घ्रिचरणा जन्तोरङ्गे मूले च भूरुहाम् ॥” [ शाश्वतः ]
Personal Use Only
www.jainelibrary.org