________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
२६८
[पादहारकः] पादाभ्यां हियते । 'बहुलम्' (५।१।२) णकप्र०→अक । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् ।
[गलेचोपकः] 'चुप मन्दायाम्' (३४२) चुप् । गले चोप्यत इति । 'बहुलम्' (५।१२) णकप्र०→अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[सायंदोहः] सायं दोहनम् । [प्रातःहः] प्रातर्दोहनम् । [पुनर्दोहः] पुनर्दोहनम् ।
[सायमाशः] सायं 'अशश भोजने' (१५५८) अश् । सायमशनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः अ०→आ० ।
[प्रातराशः] प्रातरशनम् । भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ० ।।छ।।
चार्थे द्वन्द्वः सहोक्तौ ।।३।१।११७।। [चार्थ] चस्याऽर्थः = चार्थस्तस्मिन् ।
[सहोक्तौ सह वचनं = सहोक्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र०-ति । 'यजादि-वचेः किति' (४१७९) यवृत् व०-उ०, तस्याम् ।
[धवाश्वकर्णी] धवश्च अश्वकर्णश्च । [वाक्त्वचम्] वाक् च त्वक् च = वाक्त्वचम् । ‘चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अत्अमासान्तः । [छत्रोपानहम्] छत्रं च उपानहौ च = छत्रोपानहम् । 'चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अत्समासान्तः ।
[होतृपोतृनेष्टोद्गातारः] होता च पोता च नेष्टा च उद्गाता च = होतृपोतृनेष्टोद्गातारः । ‘आ द्वन्द्वे' (३।२।३९) आ । प्रथमा जस् । मतान्तरेण ‘तृ-स्वसृ-नप्ठ-नेष्ट्र०' (१।४।३८) इत्यादिना आर् ।
[होतापोतानेष्टोद्गातारः] होता च पोता च = होतापोतारौ, नेष्टा च उद्गाता च = नेष्टोद्गातारौ, होतापोतारौ च नेष्टोद्गातारौ च = होतापोतानेष्टोद्गातारः । ‘आ द्वन्द्वे' (३।२।३९) पूर्वत्रिषु आ ।।
[पीठच्छत्रोपानहम्] पीठं च छत्रं च उपानच्च (उपानही च) । 'चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अत्समासान्तः ।
तत्रैकमर्थं प्रति व्यादीनां क्रिया-कारक-द्रव्य-गुणानां तुल्यबलानामविरोधिनामनियतक्रम-योगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । अनियतक्रमं योगं पद्यं (यौगपद्यं) येषां ते, तेषाम् ।
"अहरहर्नयमानो गामश्वं पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी" ।।१।। [अहरहर्] अहन् ‘काला-ऽध्वनोाप्तौ' (२।२।४२) अम् । 'अनतो लुप्' (१।४।५९) अम्लोपः । 'वीप्सायाम्' (७।४।८०) द्वित्वम् । ‘रो लुप्यरि' (२।१।७५) न०→र० ।
[नयमानः] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नीयते = नयमानः । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र०→आन । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org