SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६७ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । (यद्वा) पृथिव्या ईश्वरः । 'पृथिवी-सर्वभूमेरीश-ज्ञातयोश्चाऽञ्' (६।४।१५६) पार्थिवनिपातः । शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवः । [कुतपसौश्रुतः] 'कुत गुम्फप्रीत्योः' कुतिः सौत्रो धातुः । 'भुजि-कुति-कुटि-विटि-कुणि-कुष्युषिभ्यः कित्' (उणा० ३०५) किद् अपप्र० कुतपनिपातः । कुतपस्तु दर्भछागलोम्नां कम्बलं वा । सुश्रुतोऽपत्यम् । ‘डसोऽपत्ये' (६।१।२८) अण्प्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । कुतप्रधानः सौश्रुतः । [परशुरामः] परशुः-कुठारः प्रहरणो रामः । [ओदनपाणिनिः] ओदनप्रधानः पाणिनिः । [आणिमाण्डव्यः] आणिप्रधानो माण्डव्यः । [बलाकाकौशिकः] कुशिकस्याऽपत्यम् । 'विदादेवृद्धे' (६।१।४१) अप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । बलाकाप्रधानः कौशिकः । विदर्भीकौण्डिन्यः] विदर्भ ‘धवाद् योगादपालकान्तात्' (२।४।५९) डी । विदर्भीप्रधानः कौण्डिन्यः । [एकादश] एकाधिका दश = एकादश । 'एकादश-षोडश-षोडन्-षोढा-षड्डा' (३।२।९१) एकादशनिपातः । प्रथमा जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लुप् । द्वादश द्वाभ्यामधिका दश । षोडश षडिभरधिका दश = षोडश । 'एकादश-षोडश-षोडन्-षोढा-षड्डा' (३।२।९१) षोडशनिपातः । प्रथमा जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लुप् । [एकशतम् एकं च तत् शतं च । . [द्विशतम्] द्विश्च (द्वे च) तत् शतं च । [घृतौदनः] घृतेन उपसिक्त ओदनः । [तिलपृथुकाः] तिलेन मिश्राः पृथुकाः । [गुडधानाः] गुडेन मिश्रा धानाः । [गजरथः] गजयुक्तो रथः । [त्रिभागः, तृतीयभागः] तृतीयो भागस्त्रिभागः । अत एव सूत्रत्वात् पूरणप्रत्ययस्य वा लुक् । [त्र्यंशः, तृतीयांशः] तृतीयोऽशः = त्र्यंशः । अनेन तीयलोपः । (तीयलोपाभावे) तृतीयांशः । [सर्वश्वेतः द्वयोर्मध्ये प्रकृष्ट: श्वेतः = श्वेततरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरपप्र०→तर । सर्वेषां श्वेततरः = सर्वश्वेतः । अत एव सूत्रत्वात्तरलोपः । [सर्वमहान] सर्वेषां महत्तरः । अनेन तरलोपः । [मयूरव्यंसकप्रियः] मयूरव्यंसकः प्रियो यस्य सः । [पुनाराजः] पुना राजा । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । [पुनर्गवः] पुनर्गौः । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । 卐 श० म० न्या० - व्यधिकं शतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy