SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाsध्यायस्य प्रथमः पादः ।। प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । पच प्रकूलेति सातत्येनोच्यते यस्यां सा । निपातनादमी सर्वेऽपि सिद्धाः । [ इद्वितीया ] इह द्वितीयेति यस्यां क्रियायां सा । [ इहपञ्चमी] इह पञ्चमीति यस्यां क्रियायां सा । [अद्यद्वितीया] अद्य द्वितीयेति यस्यां क्रियायां सा निपातनात् 'गोश्चान्ते० ' (२।४।९६) ह्रस्वाभावः । [ एहिरेयाहिरा ] एहि रे याहि र इति यस्यां क्रियायां सा । निपातनाद् एकारस्य अकारः । 'आत्' (२।४।१८) आप्प० →3TT I [ आहोपुरुषिका ] अहो अहं पुरुष इति यस्यां क्रियायां सा । निपातनाद् णकः । [ अहंपूर्विका] अहं पूर्व इति यस्यां सा । [ अहंप्रथमिका] अहं प्रथम इति यस्यां सा । एहिवाणिजादिषु क्रियैवान्यपदार्थः । = उज्जहिजोडः । जहिस्तम्बः । [उज्जहिजोडः] उज्जहि जोडमित्यभीक्ष्णं य आह स उच्यते [जहिस्तम्बः] जहि स्तम्बमित्यभीक्ष्णं य आह स उच्यते [ उज्जहिस्तम्बः ] उज्जहि स्तम्बमित्यभीक्ष्णं य आह स उच्यते उज्जहिस्तम्बः । [कुरुकटः ] कुरु कटमित्यभीक्ष्णं य आह स उच्यते = कुरुकटः कालः । [स्नात्वा कालीभूतः ] 'भू सत्तायाम्' (१) भू । अकालः कालो भवति स्म । 'गत्यर्था - ऽकर्मक- पिब-भुजेः' (५1१199) क्तप्र०→त । ‘कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११ ) ई । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । = २६६ = [ स्नात्वाकालकः ] काल एव = कालकः । 'कालात् ' ( ७।३।१९) कप्र० । [ पीत्वास्थिरकः ] 'पां पाने' ( २ ) पा । पानं पूर्वम् । 'प्राक्काले ' ( ५/४१४७) क्त्वाप्र० त्वा । 'ईर्व्यञ्जनेऽयपि’ (४।३।९७ ) ई । स्थिर एव = स्थिरकः । ' यावादिभ्यः कः ' ( ७।३।१५) कप्र० । [भुक्त्वासुहितः ] भुक्त्वासुहित इति किमुच्यते ? - यो यत् किञ्चिदशित्वा सुहितो भवति स एवमुच्यते । [प्रोष्यपापीयान् ] प्र 'वसं निवासे' (९९९) वस् । प्रवसनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप्य । 'यजादि-वचेः किति' (४।१।७९) य्वृत् व० उ० । 'नाम्यन्तस्था० ' (२।३।१५) स० → ष० (?) ('घस्वसः' (२।३।३६) स० ष ० ) । ततो मध्यस्थः समासः । Jain Education International [उत्पत्यपाकला] उत् 'पत्लृ गतौ' (९६२) पत् । उत्पतनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० – त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । [ निपत्यरोहिणी] निपत्य भूमौ निपतिता रोहिणी या रक्ता भवति सा । [पुटापुटिका ] पुटावयवयोगात् पुटः, पुटिकावयवयोगात् पुटिका, पुटश्चासौ पुटिका च । [मानोन्मानिका] मानावयवयोगान्मानः, उन्मानिकावयवयोगादुन्मानिका, मानश्चासावुन्मानिका च । [शाकपार्थिवः ] पृथु । पृथोरपत्यम् । 'डसोऽपत्ये' (६।१।२८) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy