SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका टुंढिका । [प्रोहकपर्दा] प्रोह कपर्देति जल्पो यस्यां सा । [उद्धमचूडा] उद् 'मां शब्दा-ऽग्निसंयोगयोः' (४) मा । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौतिकृवु-धिवु०' (४।२।१०८) धमादेशः । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । ततो मध्यस्थः समासः । [आहरवसना] 'हंग् हरणे' (८८५) हृ, आड्पूर्व० । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः प्रत्ययाल्लुक' (४।२।८५) हिलोपः । आहर वसनमिति जल्पो यस्यां सा । [आहरवितता] आहर विततमिति जल्पो यस्यां सा । [कृन्धिविचक्षणा क्रिया] 'कृतैप वेष्टने' (१४९०) कृत् । पश्चमी हि । 'रुधां स्वराच्छ्नो नलुक च' (३।४।८२) श्नप्र० । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'हु-धुटो हेर्धिः' (४।२।८३) हि०→धि० । 'धुटो धुटि स्वे वा' (१।३।४८) तलोपः । कृन्धि विचक्षण ! इति विचक्षणमिति वा जल्पो यस्यां क्रियायां सा । [भिन्धिलवणा] 'भिदूंपी विदारणे' (१४७७) भिद् । पञ्चमी हि । 'रुधां स्वराच्५नो नलुक् च' (३।४।८२) श्नप्र० । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'हु-धुटो हेर्धिः' (४।२८३) हि०→धि० । 'धुटो धुटि स्वे वा' (१।३।४८) दलोपः । भिन्धि लवणमिति जल्पो यस्यां क्रियायां सा । [पचलवणा] 'डुपीए पाके' (८९२) पच् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । पच लवणमिति जल्पो यस्यां सा । [उद्धरावसृजा] उत् 'धृग् धारणे' (८८७) धृ । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । उद्धर अवसृज इति जल्पो यस्यां सा । [उद्धमविधमा] उद्धम विधम इति जल्पो यस्यां सा । [उद्वपनिवपा] उत् 'डुवपी बीजसन्ताने' (९९५) वप् । पशमी हि । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । उद्वप निवप इति जल्पो यस्यां सा | [उत्पतनिपता] उत्पत निपत इति जल्पो यस्यां सा । [उत्पचनिपचा] उत्पच निपच इति जल्पो यस्यां सा । [अश्नीतपचता] 'अशश् भोजने' (१५५८) अश् । पञ्चमी त । 'ज़्यादेः' (३।४।७९) श्नाप्र०→ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । अश्नीत पचत इति सातत्येनोच्यते यस्यां सा । खादतमोदता] 'खादृ भक्षणे' (२९४) खाद् । पञ्चमी त । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'मुदि हर्षे' (७२६) मुद् । 'आत्मनेपदमनित्यम्' (न्या० स० वक्ष० (२) /सूत्र (३७) चौरादिकस्य वा णिचोऽनित्यत्वे पश्चमी त । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । खादत मोदत इति सातत्येनोच्यते यस्यां सा । [पचतभृज्जता] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । पञ्चमी त । 'तुदादेः शः' (३।४।८१) शप्र०→अ । ‘ग्रह-वस्चभ्रस्ज-प्रच्छः' (४।१९८४) वृत् । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स०-→द० । 'तवर्गस्य श्चवर्ग०' (१३।६०) द०→ज०। पचत भृज्जत इति सातत्येनोच्यते यस्यां सा । [आहरनिवपा] आहर निवप इति सातत्येनोच्यते यस्यां सा । [आवपनिष्किरा] आवप निष्किरेति सातत्येनोच्यते यस्यां सा । [पचप्रकूला] प्र 'कूल आवरणे' (४२३) कूल् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव । अतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy