SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ अयमपि च तन्मतास्मन्मतयोरयं विशेषः, एकसूत्रोक्तानां प्रथमान्तानां समावेशे, एकसूत्रोक्तानां तृतीयान्तानां समावेशे च पूर्वनिपाते कामचारः । [ प्रथमवीरः, वीरप्रथमः ] प्रथमश्चासौ वीरश्च । [चरमजघन्यः, जघन्यचरम : ] चरमश्चासौ जघन्यश्च । [तुल्यभोज्यः, भोज्यतुल्यः ] तुल्यश्चासौ भोज्यश्च । [खलतिपलितः, पलितखलतिः ] खलत्या पलितः । [ जरद्वलिनः, वलिनजरन्] जरता वलिनः ॥ छ ॥। मयूरव्यंसकेत्यादयः ||३ | १ ।११६ ।। [मयूरव्यंसकेत्यादयः ] मयूरव्यंसक इति आदिर्येषां ते । मयूर इव = मयूरः । विगतावंशा (सा) वस्य = व्यंसः । व्यंसस्य तुल्यः = व्यंसकः । ' तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ' ( ७।१।१०८) कप्र० । यद्वा 'अंशण् समाघाते' (१९१७) अंश्, विपूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । व्यंसयतीति । 'णक-तृची' (५१११४८) णकप्र० अक । 'णेरनिटि' ( ४ | ३ |८३) णिच्लोपः । अयं धातुः " चन्द्रो दन्त्यान्तमाह" । [ मयूरव्यंसकः ] मयूरश्चासौ व्यंसकश्च । [छात्रव्यंसकः ] व्यंसकश्चासौ छ (छा ) त्रश्च । [कम्बोजमुण्डः] कम्बोज । कम्बोजस्याऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये द्रिरञ्' (६।१।११४) अञ्प्र० । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२० ) अञ्लोपः । मुण्डश्चासौ कम्बोजश्च । २६४ [ यवनमुण्डः ] यवन । यवनस्याऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये द्रिरञ्' (६|१|११४) अञ्प्र० । ‘शकादिभ्यो द्रेर्लुप्’ (६।१।१२० ) अञ्लोपः । मुण्डश्चासौ यवनश्च । [ एहीडं वर्त्तते] एहि ईडे । स्त्रि ! इति जल्पो यस्मिन् कर्मणि काले वा तत् । एहीडमित्यत्र ' म्लेच्छीडेर्हस्वश्च वा' (उणा० ३) अप्र० - ह्रस्वत्वम् । [प्रेहिवाणिजा ] वणिजे (गे) व । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'आत्' (२।४।१८) आपप्र० आ । प्रेहि वाणिजेति जल्पो यस्यां क्रियायां सा । [ अपेहिवाणिजा ] अपेहि वाणिजेति जल्पो यस्यां क्रियायां सा । [ एहिस्वागता ] एहि स्वागतेति जल्पो यस्यां क्रियायां सा । [ एहिप्रघसा ] 'अदं भक्षणे' (१०५९) अद्, प्रपूर्व० । प्रादनम् । 'भू श्रूयदोऽल्' (५।३।२३) अल्प्र० अ । 'घस्लृ सनद्यतनी ० ' ( ४।४।१७ ) घस्लृ आदेश: । 'आत्' (२।४।१८) आप्प्र ० आ । एहि प्रघसेति जल्पो यस्यां क्रियायां सा । [ अपेहिप्रघसा ] अपेहि प्रघसेति जल्पो यस्यां क्रियायां सा । [ एहिविघसा ] एहि विघसेति जल्पो यस्यां क्रियायां सा । [ प्रोहकर्दमा ] प्र ' ऊहि वितर्के' (८७०) ऊह् । 'उपसर्गादस्योहो वा' ( ३।३।२५) आत्मनेपदं वा भवति । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । प्रोह कर्दमेति जल्पो यस्यां सा । P व्यंसयति छलयति = व्यंसकः । Jain Education International - For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy