SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।। [सार्थाद्धीनः] 'ओहांक त्यागे' (११३१) हा । जहाति सार्थश्चैत्रं, स एवं विवक्षिते नाऽहं जहामि किन्तु हीयते स्म । 'गत्यर्थाऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । 'सूयत्याद्योदितः' (४।२।७०) त० → न० । 'ततो हश्चतुर्थः' (१९३३) ही० → धी० । [वृक्षात् पर्णं पतति] 'पत्लु गती' (९६२) पत् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । [धावतोऽश्वात् पतितः] 'सं गतौ' (२५) सृ । वेगेन सरतीति । वेगे सर्तेर्धाव्' (४।२।१०७) धाव् आदेशः । 'शत्रानशा०' (५।२।२०) शतृप्र० → अत् । पञ्चमी डसि । [पततो देवदत्ताद् धावत्यश्वः] पततीति । ‘शत्रानशा०' (५।२।२०) शतृप्र० → अत् । पञ्चमी डसि । [सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः] संकाश । संकाशेन निर्वृत्तम् । 'सुपन्थ्यादेर्व्यः' (६।२।८४) ज्यप्र० → य । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । सांकाश्ये भवाः । 'प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात्' (६।३।४३) अकञ्प० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलोपस्तेभ्यः । पाटलिपुत्र मांडियइ । पाटलिपुत्रे भवाः । 'रोपान्त्यात्' (६।३।४२) अकञ्प्र० → अक । प्रकृष्टा अभिरूपाः = अभिरूपतराः । द्वयोर्विभज्ये च तरप' (७।३।६) तरपप्र० → तर । बुद्ध्या समीहितैकत्वान, पचालान् कुरुभिर्यदा । बुद्ध्या विभजते वक्ता, तदाऽपायः प्रतीयते ।। समीहितं एकत्वं येषां ते, तान् । [अधर्माज्जुगुप्सते] 'गुपि गोपन-कुत्सनयोः' (७६३) गुप् । 'गुप्-तिजो गर्दा क्षान्तौ सन्' (३।४।५) सन्प्र० । 'सन्यडश्च' (४।१।३) गुप् द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ग-होर्जः' (४।१।४०) ग० → ज० । वर्त्त० ते । [धर्मात् प्रमाद्यति] 'मदैच हर्षे' (१२३६) मद्, प्रपूर्व० । वर्त्त० तिव । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । 'शम्सप्तकस्य श्ये' (४।२।१११) दीर्घः । चौरेभ्यस्त्रायते] 'बैङ् पालने' (६०५) त्रै । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) आय् । कश्चित् सुहृद् यदीमं चौराः पश्येयुनूनमस्य धनमपहरेयुरिति बुद्धया तं चौरैः संयोज्य तेभ्यो निवर्तयतीत्यपाय एव । 'दृशुं प्रेक्षणे' (४९५) दृश् । सप्तमी युस् । 'कर्त्तर्यनद्भ्यः०' (३।४।७१) शव् । 'श्रौति कृवु-धिवु०' (४।२।१०८) पश्य । 'याम्-युसोरियमियुसौ' (४।२।१२३) इयुस् । 'अवर्णस्येवर्णादिनैदोदरल्' (११२।६) अ० → ए० । 'हृग् हरणे' (८८५) ह, अपपूर्व० । सप्तमी युस् । ‘कर्त्तर्य०' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'याम्-युसोरियमियुसौ' (४।२।१२३) इयुस् आदेशः । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) अ० → ए० । 'वृतूङ् वर्तने' (९५५) वृत्, निपूर्व० । निवर्तमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । वर्त० ते (तिव्) । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । [अध्ययनात् पराजयते] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीयतेऽध्ययनम् । 'अनट' (५।३।१२४) अनटप० → अन । 'नामिनो' गुणो० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । तस्मात् । 'जिं अभिभवे' (८) जि, परापूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गुणु ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'परा-वेर्जे:' (३।३।२८) आत्मनेपदम् । for Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy