________________
२२७
[ तत्कृतैः ] तेन तृतीयान्तेन कृतानि = तत्कृतानि, तैः ।
तृतीया तत्कृतैः ||३|१ |६५ ।।
[गोभिर्वपावान् ] वपा मेदोऽस्थिकृद्वपा मांसं वपा विद्यते यस्याः । तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'मावर्णान्तो० ' (२।१।९४) म० व० ।
[शङ्कुलाखण्डश्चैत्रः ] शङ्कुलया कृतः खण्डः = शङ्कुलाखण्डः । शङ्कुला गण्डी कथ्यते ।
[ गिरिकाण: ] गिरिणा काणः । गिरि दडउ कथ्यते ।
[ मदपटुः ] मदेन पटुः ।
[क्षारशुक्लः ] क्षारेण कृतः शुक्लः ।
[कुसुमसुरभिः ] कुसुमेन कृतः सुरभिः ।
कृतायां वृत्तौ समासे कृतशब्दो न प्रयुज्यते ।
[घृतेन पाटवम् ] पटु । पटोर्भावः । 'य्वृवर्णाल्लध्वादेः' (७।१।६९) अण्प्र० । वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७० ) अव् ।
च =
[विद्यया धाष्टर्यम् ] धृष्ट । धृष्टस्य भावः । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च ' ( ७|१ |६०) ट्यण्प्र०य । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः आर् । 'अवर्णवर्णस्य ' ( ७ । ४ । ६८) अलोपः ||छ ||
चतस्राऽर्द्धम् ||३|१ |६६ ॥
[ चतस्रा ] चतुर् तृतीया टा । 'त्रि चतुरस्तिसृ चतसृ०' (२1१1१) चतसृ आदेशः । 'ऋतो रः स्वरेऽनि ' (२।१।२)
रत् ।
P5
[ अर्द्धचतस्रो मात्रा : ] अर्द्धन कृताश्चतस्रोऽर्द्धचतस्रः ।
[ अर्द्धचतस्रः खार्यः ] अर्द्ध-चतुर् । अर्द्धन कृताश्चतस्रोऽर्द्धचतस्रः खार्यः । चतुर् प्रथमा जस् । 'त्रि- चतुरस्तिसृ- चतसृ स्यादी' (२1919) चतसृ आदेशः । ऋतो रः स्वरेऽनि ' (२।१।२) रत् ।।छ ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
ऊनार्थ पूर्वाद्यैः || ३|१ |६७।।
[ऊनार्थपूर्वाद्यैः ] ऊनोऽर्थो येषां तानि = ऊनार्थानि पूर्व आद्यो येषां तानि पूर्वाद्यानि, ऊनार्थानि च पूर्वाद्यानि ऊनार्थपूर्वाद्यानि तैः ।
[ माषोनम् ] माषेणोनम् ।
[ कार्षापणोनम् ] कार्षापणेनोनम् ।
[ माषविकलम् ] माषेण विकलम् ।
[ कार्षापणविकलम् ] कार्षापणेन विकलम् ।
[ मासपूर्वः ] मासेन पूर्वः ।
[ संवत्सरपूर्वः ] संवत्सरेण पूर्वः ।
शङ्कुला उन्नतिकार्डिभानां खलनदारु ।
Jain Education International
For Private
Personal Use Only
=
www.jainelibrary.org