SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ २२८ [मासावरः] मासेनाऽवरः । [संवत्सरावरः] संवत्सरेणाऽवरः । [हिरण्यार्थः] हिरण्येनाऽर्थः । [आत्मनापञ्चमः] आत्मना पञ्चमः । [आत्मनाषष्ठः] आत्मना षष्ठः । ‘आत्मनः पूरणे' (३।२।१४) अलुप्समासः । [द्रोणाधिका खारी] द्रोणेनाऽधिका । [एकद्रव्यवत्त्वम्] द्रव्य । द्रव्यं विद्यते यत्र तत् । 'तदस्या०' (७।२।१) मतुप्र०→मत् । 'मावर्णान्तो०' (२।१।९४) म०व० । द्रव्यवतो भावः । 'भावे त्व तल' (७।११५५) त्वप्र० । एकेन द्रव्यवत्त्वम् ।।छ।। कारकं कृता ||३१६८|| [कृता] कृत् तृतीया टा। [आत्मकृतम्] आत्मना क्रियते स्म = आत्मकृतम् । परकृतम्] परेण कृतम् । परेण क्रियते स्म । [चैत्रनखनिर्भिन्नः] चैत्रेण नखैर्निभिन्नः । [सुजनसुलभः] सुजनेन सुखेन लभ्यते । [दुर्जनदुर्लभः] दुर्जनेन दुःखेन लभ्यते । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० । [अरिदुर्जयः] 'जिं अभिभवे' (८ ) जि । अरिभिर्दुःखेन जीयते । 'युवर्ण वृ दृ-वश-रण' (५।३।२८) अल्प० । + [लोकदुर्दशनम] 'दंशं दशने' (४९६) दंश् । लोकेन दुःखेन दश्यते । 'अनट्' (५।३।१२४) अनटप्र०→अन । [पादहारकः] पादाभ्यां ह्रियते । 'बहुलम्' (५।११२) णकप्र०→अक । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । * [तलाहतिः] ‘हनंक हिंसा-गत्योः' (११००) हन्, आपूर्व० । आहननं = आहतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । तलेनाऽऽहतिः । _ [शस्त्रप्रहतिः] 'हंग् हरणे' (८८५) हृ, प्रपूर्व० । प्रहरणं = प्रहृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र०-ति । शस्त्रैः प्रहृतिः । काकपेया नदी] 'पां पाने' (२) पा | काकैः पीयते । ‘य एच्चातः' (५।१।२८) यप्र० - आकारस्य एत । 'आत' (२।४।१८) आप् । [श्वलेह्यः कूपः] श्वान् ‘लिहीक् आस्वादने' (११२९) लिह् । श्वभिर्लिह्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र०→य । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । [कुक्कुटसंपात्या ग्रामाः] 'पत्नु गतौ' (९६२) पत्, सम्पूर्व० । कुक्कुटैः संपत्यन्ते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप०→य । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । [कण्टकसंचेय ओदनः] 'चिंगट चयने' (१२९०) चि । कण्टकैः संचीयते । 'य एच्चातः' (५११२८) यप्र० । 'नामिनो P; नखैर्निर्भिद्यते स्म = नखनिर्भिन्नः । + इदमुदाहरणं बृहदवृत्तौ नास्ति । * वृहद्वृत्तौ - तलाहृतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy