SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ २२६ तयाऽच्च] तद तृतीया टा । 'आ द्वेरः' (२११४१) द० अ० । 'लुगस्यादेत्यपदे' (२१११११३) अलोपः । 'आत (२।४।१८) आप्प०→आ । 'टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अत् प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । च प्रथमा सि ।। [प्राप्तजीविका] प्राप्ता जीविकां = प्राप्तजीविका इत्यत्र एकार्था(र्थी)भावात् 'परतः स्त्री०' (३।२।४९) इत्यनेन (पुंवद्भावः) न स्यात् इति “अत्" वचनम् । [आपन्नजीविका] 'पदिच् गतौ' (१२५७) पद्, आपूर्व० । आपद्यन्ते स्म । 'गत्यर्था०' (५।१।११) क्तप्र०→त । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त०→न । उभयत्र ‘आत्' (२।४।१८) आप्प०→आ । आपन्ना जीविकाम् । अनेनाऽत् । _[प्राप्तगवी] प्राप्ता गाम् । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । ‘अस्वयम्भुवोऽव्' (७।४।७०) अव् ? ('ओदौतोऽवाव्' (१।२।२४) अव्) । [आपन्नगवी स्त्री] आपन्ना गाम् । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४७०) अव् ? ('ओदौतोऽवाव्' (१।२।२४) अव्) । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) डी । [आपन्नजीविकः] आपन्नो जीविकाम् । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । [प्राप्तजीविकम्] प्राप्तं जीविकाम् । ‘क्लीबे०' (२।४।९७) ह्रस्वः । [आपन्नजीविकं कुलम्] आपन्नं जीविकाम् । ‘क्लीबे' (२।४।९७) ह्रस्वः । उभयत्र ‘प्रथमोक्तं प्राक्' (३।१।१४८) प्राप्तआपन्नपूर्वनिपातः ।।छ।। ईषद् गुणवचनैः ।।३।१।६४।। [गुणवचनैः] गुण 'वचं भाषणे' (१०९६) वच् । 'म गुणान् वचन्तीति गुणवचनानि । 'नन्द्यादिभ्योऽनः' (५।१।५२) अनप्र०, तैः । [ईषत्पिङ्गलः] ईषदल्पं पिङ्गलः । [ईषत्कडारः] ईषदल्पं कडारः । [ईषद्विकटः] ईषदल्पं विकटः । [ईषदुन्नतः] ईषदल्पमुन्नतः । [ईषद्रक्तः] ईषदल्पं रक्तः । अमू द्वौ औणादिको क्तान्ताया गुणवचनाभावात् । [ऐषत्पिङ्गलम्] ईषत्पिङ्गलस्येदं = ऐषत्पिङ्गलम् । 'तस्येदम्' (६।३।१६०) अण्प्र०→अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । [ऐषत्पिङ्गलकाम्यत्] ईषत्पिङ्गलमैच्छत् । 'द्वितीयायाः काम्यः' (३।४।२२) काम्यप्र० । हास्तनी दिव्→त् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः ऐ । ‘लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कोपेषद्रक्तः] कोपेनेषद्रक्तः = कोपेषद्रक्तः । 'ऊनार्थपूर्वाद्यैः' (३।१।६७) इति समासः, द्विपदत्वात् । [ईषत्पिङ्गल ! युष्माकमथो पूत्रः] ईषत्पिङ्गल ! युष्माकमथो इत्यत्र ‘असदिवाऽऽमन्त्र्यं पूर्वम्' (२।१।२५) इत्यनेन पूर्व(व)पदमसत् ।।छ।। P5 गुणा उच्यन्ते यैस्तैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy