SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४ [ रात्रावुद्देशोऽधीतः ] अधीयते स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । [ आसितो मासः ] आस्यते स्म । 'श्लिष-शी-स्था- Sऽस-वस-जन-रुह नृ-भजेः क्तः ' ( ५1१1९ ) क्तप्रत । [ शयितः क्रोशः ] शय्यते स्म । 'श्लिष- शीड्-स्था०' (५।११९) क्तप्र० त । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ई०ए० ॥ छ ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका | साधकतमं करणम् ||२२|२४|| [साधकतमम् ] राधं (१३०४ ) - 'साधंट् संसिद्धौ' (१३०५) साध् । साध्नुवन्तं प्रयुङ्क्ते । प्रयोक्तृव्यापारे णिग् ( ३।४।२०) णिग्प्र० । साधयतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । प्रकृष्टं साधकं = साधकतमम् । 'प्रकष्टे तमप्' (७।३।५) तमप्प्र० तम । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । कारकाऽव्यवधानेन, क्रियानिष्पत्तिकारकं । यद्वै ( द्वा) विवक्षितं तेषु कारणं तत् प्रकीर्त्तितम् ॥१ ॥ [दानेन भोगानाप्नोति ] 'आप्लृट् व्याप्ती' (१३०७) आप् । वर्त्त० तिव् । 'स्वादेः श्नु : ' (३।४।७५) श्नुप्र० नु । 'उ-श्नो:' ( ४।३।२) गु० उ० ओ० ॥छ । कर्माऽभिप्रेयः संप्रदानम् ||२||२५|| [कर्माऽभिप्रेयः ] 'प्रीड्य् प्रीती' (१२५३) प्री, अभिपूर्व० । कर्मणाऽभिप्रीयते यः सः = (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ई० ए० । [संप्रदानम्] संप्रदीयतेऽस्मै इति संप्रदानम् । वाहुलकादनट्प्र० कर्माऽभिप्रेयः । य एच्चातः ' अन । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । [देवाय बलिं ददाति ] 'डुदांग्क् दाने' (११३८) दा । वर्त्त० तिव् । 'हवः शिति' (४।१।१२) द्विर्वचनम् । 'ह्रस्वः' (४।१।३९) ह्रस्वत्वम् । [याचकायार्थं प्रयच्छति] ‘यमूं उपरमे' (३८६) यम्, प्रपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'गमिषद्यमश्छः ' ( ४।२।१०६) म० छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे० ' (१।३।५०) छ० च० । [राज्ञे कार्यमावेदयति ] 'विदक् ज्ञाने' (१०९९) विद् आपूर्व० । आविदन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० । वर्त्त० तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० ए० । [ श्राद्धाय निगल्हते] 'गल्हि कुत्सने' (८६१) गल्हू, निपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः ०' (३।४।७१ ) शव् । [युद्धाय सन्नह्यते] 'णहींच् बन्धने' (१२८५) ह् । 'पाठे धात्वादेर्णो नः' (२/३/९७) नह, संपूर्व० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । Jain Education International [घ्नतः पृष्ठं ददाति ] 'हनंक् हिंसा - गत्योः' (११००) हन् । हन्तीति घ्नन् । 'शत्रानशावेष्यति तु सस्यौ' (५/२/२०) शतृप्र० → अत् । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) अलोपः । ' हनो नो घ्नः ' (२।१।११२ ) घ्नादेशः ||छ || स्पृहेर्याप्यं वा || २ | २|२६|| [स्पृहेर्व्याप्यं वा ] स्पृहि षष्ठी डस् । 'आप्लृट् व्याप्तौ ' (१३०७) आप्, विपूर्व० । विशेषेणाऽऽप्यते प्राप्यत इति For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy