________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥
१३
[दिवसं शेते, दिवसः शय्यते] 'शीड़क स्वप्ने' (११०५) शी । वर्त० ते । 'शीङ ए: शिति' (४।३।१०४) ए । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । 'क्डिति यि शय' (४।३।१०५) शय आदेशः ।
योजनमास्ते, योजनमास्यते] 'युनूंपी योगे' (१४७६) युज । युज्यते क्रोशादिभिरिति योजनम् । 'भुजि-पत्यादिभ्यः कर्मा-ऽपादाने' (५।३।१२८) अनटप० → अन । 'आसिक उपवेशने' (१११९) आस् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
[गोदोहमास्ते, गोदोह आस्यते] गो ‘दुहीक क्षरणे' (११२७) दुहु । गवां दोह: = गोदोहः । 'भावा-ऽकोंः (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० ।
[ओदनपाकं शेते, ओदनपाकः शय्यते] ओदन । 'डुपची पाके' (८९२) पच् । ओदनस्य पचनं = ओदनपाकः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) च० →क०।
[क्रोशमधीते, क्रोशोऽधीयते] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० । 'दीर्घश्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । 'समानानां०' (१।२।१) दीर्घः ।
[रात्री नृत्तं च द्रक्ष्यसि] 'नृतैच् नर्तने' (११५२) नृत् । नर्तनं = नृत्तम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । 'दृशुं प्रेक्षणे' (४९५) दृश् । भविष्यन्ती स्यसि । 'अः सृजि-दृशोऽकिति' (४।४।१११) अकारागमः । ‘इवर्णादेरस्वे०' (१।२।२१) रत्वम् । 'यज-सृज-मृज-राज०' (२।१८७) श० → ष० । 'ष-ढोः कस्सि ' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । क-षसंयोगे क्ष ।
[ग्रामवासी] 'वसं निवासे' (९९९) वस् । ग्रामे वसतीत्येवंशीलो ग्राम(मे)वासी । 'अजातेः शीले' (५।११५४) णिन्प्र० → इन् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रथमा सि । 'इन-हन-पूषाऽर्यम्ण: शिस्योः' (११४८७) दीर्घः । 'दीर्घड्या' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । 'शय-वासि-वासेष्वकालात्' (३।२।२५) अलुप् समासः ।
- [रात्रावधीतम्] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'समानानां०' (१४२११) दीर्घः ।
[दिवसे भुक्तम्] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते स्म । 'क्त-क्तवतू' (५।१।१७८) क्तप्र० → त । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० (?) ('च-जः क-गम्' (२।१।८६) ज० → ग०) । 'अघोषे प्रथमोऽशिटः' (१।३१५०) ग० → क० ।
प्रासादे आस्ते] 'षलूं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सद, प्रपूर्व० । प्रसीदन्त्यस्मिन् जनानां नयनमनांसीति प्रासादः । 'व्यञ्जनाद् घञ्'(५।३।१३२) घञ्प्र० → अ । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
[शय्यायां शेते] 'शीक् स्वप्ने' (११०५) शी । शय्यतेऽस्याम् । 'समज-निपत्-निषद्-शीङ्-सुग्-विदि-चरि-मनीणः' (५।३।९९) क्यप्प० → य । ‘क्डिति यि शय्' (४।३।१०५) शय् आदेशः ।
[गोदोहमासितः] 'आसिक् उपवेशने' (१११९) आस् । आस्यते स्म । “श्लिष-शीड्-स्था-ऽऽस-वस-जन-रुह-जू-भजेः क्तः' (५।१।९) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[इदं गोदोहमासितम] आस्यते स्माऽस्मिन्निति । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) क्तप्र० → त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org