________________
१२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[ग्राममुपोषितः] 'वसं निवासे' (९९९) वस्, उपपूर्व० । उपोष्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'क्षुध-वसस्तेषाम्' (४।४।४३) इट् । 'यजादि-वचेः किति' (४।१।७९) य्वृत् व० → उ० । 'घस्-वसः' (२।३।३६) षत्वम् । 'अवर्णस्येवर्णादिनैदोदरल' (१।२।६) ओ ।
[ग्रामस्योपवसनम्] उपोष्यते । ‘अनट्' (५।३।१२४) अनटप० → अन ।
[ग्राम उपोष्यते] 'वसं निवासे' (९९९) वस, उपपूर्व० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'यजादि-वचेः किति' (४१७९) य्वृत् व० → उ० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० (?) ('घस्-वसः' (२।३।३६) षत्वम्) ।
[आवसथमावसति] 'वसं निवासे' (९९९) वस्, आयूर्व० । आवसन्ति जना अस्मिन्निति । 'उपसर्गाद्वसः' (उणा० २३३) अथप्र० । आ-वस, वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् ।।छ।।
वाऽभि-निविशः ।।२।२।२२।। वाऽभिनिविशः] 'वा + अभिश्च निश्च = अभिनी । अभिनिभ्यां विश(ट) = अभिनिविश(ट), तस्य = अभिनिविशः । षष्ठी डस् ।
[ग्राममभिनिविशते] 'विशंत प्रवेशने' (१४१५) विश, अभि-निपूर्व० । वर्त्त० ते । 'तुदादे: शः' (३।४।८१) शप्र० → अ । 'निविशः'(३।३।२४) इत्यात्मनेपदम् ।
ग्रामोऽभिनिविष्टः] अभिनिविश्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० →त । 'यज-सृज-मृजराज०' (२।१।८७) श० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
_ [या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, संपूर्व० । संज्ञानं = संज्ञा । 'उपसर्गादातः' (५।३।११०) अप्र० । संज्ञा विद्यतेऽस्य । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'अवर्णेवण आलोपः ।
एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानाम] अभिनिविशन्ते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप्र० । तेषाम् ।
[अर्थऽभिनिविष्टः] अभिनिविशते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप्र० → त छ।।
काला-ऽध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम् ।।२।२।२३।। कालाऽध्वभावदेशम] कालश्च अध्वा च भावश्च देशश्च = कालाऽध्वभावदेशम् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
[अकर्म] न कर्म = अकर्म । [अकर्मणाम न विद्यते कर्म येषां तेऽकर्माणस्तेषाम् ।
[संवत्सरं स्वपिति, संवत्सरः सुप्यते] 'जिष्वपंक् शये' (१०८८) ष्वप् । ‘षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३१९८) स्वप् । वर्त्तः तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट् । स्वप् वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'स्वपेर्यङ्-डे च' (४।१८०) य्वृत् ।
+ मध्यमवृत्तौ - श० म० न्या० - अभिपूर्वश्चासौ निश्च = अभिनिः, अभिनेः परो विट् = अभिनिविट, तस्य = अभिनिविशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org