________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पाद: ।।
[अक्षाः सुदेवाः, अक्षैः सुदेवं मैत्रेण] सुष्ठु अतिशयेन देवनं पूर्वम् । 'दुः-स्वीषतः कृच्छा-ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खल्प्र० → अ ।
[अक्षदेवः] अक्षान् दीव्यति । 'कर्मणोऽण्' (५।१।७२) अण्प० । 'लघोरु०' (४।३।४) गु० ए ।
[अक्षा देवनाः] दीव्यन्ते एभिरिति । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४३४) गु० ए ।
[अक्षैर्देवयते मैत्रश्चैत्रेण] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । अझैर्दीव्यति चै(मैत्रः, तं अक्षैर्दीव्यन्तं मै(चै)त्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणो०' (४।३।१) गु० ए । 'वाऽकर्मणामणिकर्ता णौ' (२।२।४) कर्मत्वम् । 'अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ' (३।३।८८) आत्मनेपदम् ।।छ।।
अधेः शीड़-स्था-5ऽस आधारः ।।२।२।२०।। [अधेः शीड्स्थाऽऽसः] अधि' षष्ठी डस् । शीङ् च स्थाश्च आस् च = शीड्स्थास्, तस्य = शीड्स्थासः । षष्ठी डस् ।
[आधारः] आधियते कर्तृ-कर्मणीत्याधारः । प्रथमा सि ।
[ग्राममधिशेते ग्राम द्वितीया अम् । ‘शी स्वप्ने' (११०५) शी, अधिपूर्व० । वर्त० ते । 'शीङ ए: शिति' (४।३।१०४) ए।
[ग्रामस्याऽधिशयनम्] 'शीक् स्वप्ने' (११०५) शी, अधिपूर्व० । अधिशय्यते । 'अनट्' (५।३।१२४) अनट्प० → अन । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[ग्रामोऽधिशय्यते] 'शीक स्वप्ने' (११०५) शी, अधिपूर्व० । वर्त्त० ते । ‘क्यः शिति' (३।४।७०) क्यप्र० → य । 'क्डिति यि शय्' (४।३।१०५) शय आदेशः ।
[ग्रामोऽधिशयितः] अधिशय्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'न डीङ्-शीङ्-पूङ - धृषि - क्ष्विदि- स्विदि-मिदः' (४।३।२७) क्तस्य कित्त्वनिषेधात् 'नामिनो०' (४।३१) गुणः ।
[ग्राममधितिष्ठति] 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' (न्या० सं० १/२९) स्था । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु०' (४।२।१०८) तिष्ठ आदेशः ।
[ग्राममध्यास्ते] 'आसिक् उपवेशने' (१११९) आस्, अधिपूर्व० । वर्त्त० ते ।
[पौरुषेणाऽधितिष्ठति पुरुष मांडियइ । पुरुषस्येदं = पौरुषम् । 'पुरुष-हृदयादसमासे' (७।१७०) अण्प्र० । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ।।छ।।
उपान्वध्याङ्वसः ।।२।२।२१।। [उपान्वध्याइवसः] उपश्च अनुश्च अधिश्च आङ् च = उपान्वध्याङ् उपान्वध्याङ्भ्यो वस् = उपान्वध्याङ्वस्, तस्य = उपान्वध्यावसः । पष्ठी डस् ।
+ P. पञ्चमी सि ।।
P卐 उपान्वध्यापूर्वो वस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org