SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १० विनिमेयः । य एच्चातः ' ( ५।१।२८) विनिमेय द्यूतपणं पेण-व्यवहोः ||२|२|१६|| [विनिमेयद्यूतपणम्] 'मांक् माने' (१०७३) मा, विनिपूर्व० । विनिमेयं = यप्र०, आ०→ए० । विनिमेयश्च द्यूतपणं च = विनिमेयद्यूतपणम् । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । [पणव्यवहो: ] 'पणि व्यवहार - स्तुत्यो:' ( ७१०) पण् । पणनं = पणः । 'पणेर्माने' (५।३।३२) अल्प्र०) पणश्च व्यवहृश्च = पणव्यवह्रौ तयोः = पणव्यवह्रोः । सप्तमी ओस् । [ शतस्य पणायति, शतं पणायति ] 'पणि व्यवहार - स्तुत्यो:' ( ७१०) पण् । 'गुपौ धूप विच्छि-पणि- पनेरायः ' ( ३।४।१) आयप्र० । वर्त्त० तिव् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ दशानां व्यवहरति, दश व्यवहरति ] 'हंग हरणे' (८८५) ह्र, वि- अवपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणो० ' ( ४।३।१) अर् ||छ । उपसर्गाद् दिवः || २ |२| १७ ।। [उपसर्गाद्] 'सृजंत् विसर्गे' (१३४९) सृज्, उपपूर्व० । उप-समीपे भूत्वा धातोरर्थं सृजतीत्युपसर्गः । 'भावाऽकर्त्रीः ' (५।३।१८) घञ्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) अर् । 'क्तेऽनिटश्च - जो : ० ' (४।१।१११ ) ज०ग० । तस्मात् । [ शतस्य प्रदीव्यति, शतं प्रदीव्यति ] शत षष्ठी डस् । शत द्वि० अम् । 'दिवूच् क्रीडा-जयेच्छा-पणि-धुति-स्तुति-गतिषु' (११४४) दिव्, प्रपूर्व० । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । [शतस्य प्रद्यूतम्, शतं प्रद्यूतम् ] प्र - दिव् । प्रदेवनं = प्रद्यूतम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० त० । 'अनुनासिके च च्छ्वः शूट्' (४।१।१०८ ) ऊटू । 'इवर्णादे० ' (१।२।२१) यत्वम् । [ शतस्य प्रदेवितव्यम्; शतं प्रदेवितव्यम् ] प्र - दिव् । प्रदीव्यते = प्रदेवितव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [शतस्य सुदेवम्, शतं सुप्रदेवम् ] सु-प्र- दिव् । सुखेन प्रदेवनं पूर्वं सुप्रदेवम् । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५।३।१३९) खल्प्र० अ ॥ छ। न || २ | २|१८|| [जिनं दीव्यति ] 'जिं अभिभवे' (८) जि । रागादिशत्रवो जीयन्ते स्म । 'जीण-शी- दी - बुध्यवि-मीभ्यः कित्' (उणा० २६१) कि नप्र० |छ । करणं च ||२| २|१९ ॥ [करणम् ] 'डुकृंग् करणे' (८८८) कृ । क्रियतेऽनेनेति करणम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [अक्षाणां देवनम् अक्षैर्देवनम् ] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यते एभिरिति देवनम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ अक्षा देवितव्याः, अक्षैर्देवितव्यम् ] दीव्यन्ते । 'तव्याऽनीयो' (५।१।२७) तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४ । ४ । ३२ ) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । P. + व्यवहारं च । Jain Education International १. लघुवृत्ती० पणि । 5 पणिश्च व्यवहा च पणिव्यवहारौ, तयोः, लघुवृत्त्यवचूरि । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy