SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। ( ३।४।१७ ) णिच्प्र० ३ । ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ पार्श्वोपपीडं शेते] पार्श्व उप 'पीडण् गहने' (१६२५) पीड् । 'चुरादि० ' ( ३।४।१७) णिच्प्र० इ । पार्श्वयोः पार्श्वाभ्यां वोपपीडं = पार्श्वोपपीडम् । 'उपपीड - रुध-कर्षस्तत्सप्तम्या' (५।४।७५ ) णम्प्र० - अम् । 'णेरनिटि ' ( ४ | ३ |८३) णिच्लोपः ||छ || २२० नञ् ।। ३ । १ । ५१ ।। [ असूर्यं पश्या राजदाराः ] न सूर्यं दृशुं प्रेक्षणे' (४९५) दृश् । सूर्यमपि न पश्यन्ति । 'असूर्योग्राद् दृश: ' ( ५|१|१२६ ) खश्प्र० अ । 'श्रौति- कृवु-धिवु०' (४।२।१०८) पश्य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ' खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च' ( ३।२।१११ ) मोऽन्तः । [ अपुनर्गेयाः श्लोकाः ] पुनर् कैं ( ३६ ) - 'मैं शब्दे' (३७) गै। 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । पुनर्न गीयन्ते । 'य एच्चातः' (५।१।२८) यप्र० आ० ए० । प्रथमा जस् । [ अश्राद्धभोजी भिक्षुः ] न श्राद्ध 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । श्राद्धं न भुङ्क्ते । 'व्रता - Sऽभीक्ष्ण्ये' (५1१1१५७) णिन्प्र ० इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहून ' (२।१।९१ ) नलोपः । छ । । पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नेनांशिना || ३ | १ |५२ ।। [पूर्वाऽपराऽधरोत्तरम् ] पूर्वश्च अपरश्च अधरश्च उत्तरश्च = पूर्वाऽपराऽधरोत्तरम् । [अभिन्नेनांशिना ] न भिन्नोऽभिन्नस्तेन । अंशोऽस्याऽस्तीति अंशी, तन । [पूर्वकायः ] चीयते आहारादिभिरिति कायः । ' चिति - देहा - SSवासोपसमाधाने कश्चाऽऽदे:' ( ५। ३ । ७९) घञ्प्र० अच० क० । पूर्वः कायस्य = पूर्वकायः । [ अपरकायः ] अपरः कायस्य । [ अधरकायः ] अधरः कायस्य । [ उत्तरकायः ] उत्तरः कायस्य । [पूर्वं छात्राणामामन्त्रयस्व] 'मन्त्रिण गुप्तभाषणे' (१८४०) मन्त्र, आङ्पू० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० →इ । 'अतः' (४।३।८२) अलोपः । पञ्चमी स्व । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१ ) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [पूर्वं पाणिपादस्य ] पूर्वं पाणिपादस्येत्यत्र यद्यप्येकापेक्षया भिन्नत्वं तथापि द्वितीयापेक्षयाभिन्नत्वम्, अतो निषेधप्रधानोऽयं प्रसज्यः न पर्युदासवत् विधिप्रधानः ||छ || सायाह्नादयः || ३|१ |५३ ।। Jain Education International [ सायाह्नादयः ] सायाह्न आदिर्येषां ते । [ सायाहूनः ] सायमनः = सायाह्नः । 'सर्वांऽश संख्या- ऽव्ययात्' (७।३।११८) अट्समासान्तः अह्न आदेशश्च । सायंशब्दो यदाऽव्ययस्तदा अत एव निर्देशाद् मलोपः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy