________________
ARNAMANNA
२१९
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [अतिथिवेदं भोजयति] अतिथि 'विदक् ज्ञाने' (१०९९) विद् । अतिथीन् वेदनं पूर्वम् । 'विद्-दृग्भ्यः कान्ये णम्' (५।४।५४) णम्प०→अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[प्रष्टी] प्र'ष्यं गतिनिवृत्तौ' (५) ष्य । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्याय० १/२९) स्था । प्रतिष्ठतीति । 'उपसर्गादातो डोऽश्यः' (५।१५६) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२१११४) आलोपः । 'प्रष्ठोऽग्रगे' (२।३।३२) प्रष्ठनिपातः । प्रष्ठस्य भार्या । 'धवाद् योगादपालकान्तात्' (२।४।५९) डीप्र० । ‘अस्य ड्यां लुक्' (२।४।८६) अलोपः ।
[चर्मक्रीती] चर्मन् ‘डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । चर्मणा क्रीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० →त । 'क्रीतात् करणादेः' (२।४।४४) डीप्र० ।
[अभ्रविलिप्ती] अभ्र वि 'लिपीत् उपदेहे' (१३२४) लिप् । अल्पेन अभ्रेण विलिप्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । ‘क्तादल्पे' (२।४।४५) डीप्र० ।
कच्छपी] कच्छ 'पांकु रक्षणे' (१०६७) पा । कच्छं पातीति । 'स्था-पा-सा-त्रः कः' (५।११४२) कप० । 'इडेत्पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । ‘जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) ङी ।
[माषवापिणी] 'वोत्तरपदान्तन-स्यादेरयुव-पक्वा-ऽह्नः' (२।३।७५) न०→ण० । [वीहिवापिणी] 'वोत्तरपदान्तन-स्यादेरयुव-पक्वा-ऽहनः' (२।३७५) न०→ण० ।
[कारकस्य गतिः] 'गम्लं गतौ' (३९६) गम् । गमनं = गतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र०→ति । 'यमिरमि-नमि-गमि-हनि मनि वनति-तनादेधुटि क्ङिति' (४।२।५५) मलोपः ।
[कारकस्य व्रज्या] धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - धजु (१३५) वज (१३६) - 'व्रज गतौ' (१३७) व्रज् । व्रजनं = व्रज्या । 'आस्यटि-व्रज-यजः क्यप' (५।३।९७) क्यपप्र०→य । 'आत' (२।४।१८) आप्प०-→आ ।
[अलं कृत्वा] अलम्-अव्यउ, ‘डुकृग् करणे' (८८८) कृ । अलं करणं पूर्वम् । 'निषेधेऽलं-खल्वोः क्त्वा ' (५।४।४४) क्त्वाप्र० ।
[खलु कृत्वा] खलु-अव्यउ, 'डुकंग करणे' (८८८) कृ । खलु करणं पूर्वम् । 'निषेधेऽलं-खल्वोः क्त्वा ' (५।४।४४) क्त्वाप्र० ॥छ।
तृतीयोक्तं वा ॥३।१५०।। [तृतीयोक्तम् ॥ तृतीयया उक्तं = तृतीयोक्तम् ।
[मूलकोपदंशं भुङ्क्ते] प्रधानभुजिक्रियापेक्षया ‘सहार्थे' (२।२।४५) तृतीयैव मूलकेनेत्यत्र ननु उपदंशि गौणक्रियापेक्षं कर्म समासफलं- 'ऐकाN' (३।२।८) इत्यनेन विभक्तिलोपः । उप ‘दंशं दशने' (४९६) दंश् । मूलकेन उपदश्यते । 'दंशेस्तृतीयया' (५।४।७३) णमप्र०→अम् ।
[दण्डोपघातं गाः कलयति] दण्ड 'हनंक हिंसा-गत्योः' (११००) हन् । दण्डेन उपधातम् । 'हिंसाऽर्थादेकाऽऽप्यात्' (५।४।७४) णम्प्र० । 'ञ्णिति घात्' (४।३।१००) घात् आदेशः ।+ 'कल क्षेपे' (१६९६) कल् । 'चुरादिभ्यो णिच्' P卐 तृतीयया उच्यते स्म । + 'कलण क्षेपे' कालयति । 'कलण् संख्यान-गत्योः' कलयति । धातुपारायणे-'कलण क्षेपे' कालयति गाः ।
श० म० न्यासानुसन्धाने 'कलण् संख्यानगत्योः' गृहीतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org