________________
२२१
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[मध्यंदिनम्] मध्यं दिनस्य = मध्यंदिनम् । 'लोकम्पृण-मध्यन्दिना-ऽनभ्याशमित्यम्' (३।२।११३) इति म० ।
मध्यरात्रः] मध्यं रात्रेः = मध्यरात्रः । 'संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९) अत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । एवमग्रेऽपि । [पूर्वकायः] यदि षष्ठीसमासः स्यात् तदा कायपूर्वमिति स्यात्, 'षष्ठ्यय०' (३।११७६) इति सूत्रे प्रथमोक्तत्वात् ।।छ।।
समेंऽशेऽर्द्ध नवा ।।३।११५४।। [अर्द्धपिप्पली, पिप्पल्यर्द्धम्] अर्द्धं पिप्पल्याः । 'प्रथमोक्तं प्राक्' (३।१।४८) अर्द्धपूर्व० । पक्षे पिप्पल्या अर्द्धम् । 'षष्ठ्ययत्नाच्छेषे' (३।१७६) इत्यनेन समासः ।
[अर्द्धकोशातकी, कोशातक्यर्द्धम्] कोशातकी-अर्द्धम् । अर्धा कोशातक्याः । 'प्रथमोक्तं प्राक्' (३।१।१४८) अर्द्धपूर्व० । [अर्द्धपणः, पणार्द्धम्] पणस्याऽर्द्धम् । [अर्द्धवेदिः, वेद्यर्द्धम्] अर्द्धं वेद्याः । [अर्द्धचापम्, चापार्द्धम्] चापस्याऽर्द्धम् । [अर्द्धस्वरः, स्वरार्द्धम] अर्द्ध स्वरस्य । [अर्द्धग्रामः, ग्रामार्द्धम अर्द्व ग्रामस्य । [अर्धापूपः, अपूपार्द्धम्] अर्द्धमपूपस्य [ग्रामार्द्धः] ग्रामस्याऽर्द्धम् । [नगरार्द्धः] नगरस्याऽर्द्धम् । [अर्द्ध पिप्पलीनाम अर्द्ध पिप्पलीनाम् ।
[अर्द्धपिप्पल्यः] पिप्पली च पिप्पली च पिप्पली च = पिप्पल्यः । ‘स्यादावसंख्येयः' (३।१।११९) एकशेषः । अर्द्ध पिप्पलीनां = अर्द्धपिप्पल्यः ।
[अर्द्धराशिः] अर्द्ध राशेः । असमांशे एव षष्ठी समासः । पिप्पल्या अर्द्धमिति न छ।।
जरत्यादिभिः ।।३।११५५।। [जरत्यादिभिः] जरती आदिर्येषां ते = जरत्यादयस्तैः ।
[अर्द्धजरती, जरत्यर्द्धः] 'जृण वयोहानौ' (१९४८) जु । जरतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० →अत् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शवप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'लुगस्यादेत्यपदे' (२।१1११३) अलोपः । 'अधातूदृदितः' (२४।२) डी । अझै जरत्याः । 'प्रथमोक्तं प्राक्' (३।१।१४८) अर्द्धपूर्व० । जरत्या अर्द्धः ।
- [अर्द्धवैशसम्] 'शंसू स्तुतौ च' (५५०) शंस्, विपूर्व० । विश(शं)सनम् । 'क्रुत्-संपदादिभ्यः०' (५।३।११४) क्विपप्र० । 'अप्रयोगीत' (१1१1३७) क्विपलोपः । विशस एव = वैशसम् । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः वै । अझै वैशसस्य । प्रशंसू स्तुतौ च' अनटि शंसनम् । 'शसू हिंसायाम्' अनटि शसनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org