SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१७ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । (७।३।१२४) अत्(ड)समा० । 'अवर्णवर्ण०' (७।४।६८) ईलोपः । प्रथमा सि । [उत्कुला कुलटा] उत्क्रान्ता कुलात् । अट गतौ (१९४) अट् । अटतीति अटा । 'अच्' (५।१।४९) अच्प्र०→ अ । 'आत्' (२।४।१८) आप्प०→आ । कुलानामटा = कुलटा । ‘पृषोदरादयः' (३।२।१५५) निपातः । [उदवेलः समुद्रः] उद्गतो वेलायाः = उद्वेलः । 'गोश्चान्ते०' (२१४।९६) ह्रस्वः । [उच्छ्रास्त्रं वचः] उद्गतं शास्त्रेभ्यः = उच्छास्त्रम् । [उच्छ्ट्सलः कलभः] उद्गतः शृङ्खलायाः = उच्छृङ्खलः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । [अपक्रम कार्यम्] अपगतं क्रमात् = अपक्रमम् । [अन्तरङ्गुलो नखः] अन्तर्गतोऽगुल्याः = अन्तरङ्गुलः । 'संख्या-ऽव्यया०' (७।३।१२४)5 अत् (डः) समासान्तः । [प्रत्युरसम्] प्रति । उरस् । प्रतिष्ठितमुरसि = प्रत्युरसम् । 'प्रतेरुरसः सप्तम्याः (७।३।८४) अत्समासान्तः । [प्राचार्यको देशः] प्रगता आचार्या यस्मिन देशे सः । 'शेषाद् वा' (७।३।१७५) कचप्र० →क ॥छ।। अव्ययं प्रवृद्धादिभिः ।।३।१।४८॥ [प्रवृद्धादिभिः] + प्रवृद्धा आदिर्येषां तानि = प्रवृद्धादीनि, तैः । [पुनःप्रवृद्धं बर्हिः] पुनर-प्र 'वृधूङ् वृद्धौ' (९५७) वृध् । पुनः प्रवर्धते स्म । कतरिक्तप्र०→त । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) ध०→द० । अर्थकथनमेतद् नित्यसमासात् । [पुनरुत्स्यूतं वासः] पुनर्-उत् ‘षिवूच उतौ' (११६४) षिव् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । पुनरुत्सीव्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र०→त । 'अनुनासिके च च्छ्-वः शूट' (४1१1१०८) व०→ऊट्→ऊ। 'इवर्णादे०' (१।२।२१) य् । पिनर्निष्क्रान्तो रथः] पुनर्निष्कुरुते (?) (क्राम्यति) । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र०→त । [पुनरुक्तं वचः] पुनर् ‘वचंक् भाषणे' (१०९६) वच् । पुनरुच्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'यजादि-वचेः किति' (४।१७९) वृत् व०→उ० । 'क्तेऽनिटश्च-जोः०' (४११११) च०→क० (?) ('च-जः क-गम्' (२।१।८६) च०-→क०) । [पुनर्नवं वयः] पुनर् ‘णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । पुनर्नीतीति पुनर्नवम् । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प०→अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [पुनःशृतं पयः] 'श्रांक पाके' (१०६५) श्रा । 'धै पाके' (४६) भै । श्राति स्म, श्रायति स्म वा क्षीरं-हविर्वा । 'गत्यर्था०' (५।१।११) क्तप्र०→त । 'श्रः शृतं हविः-क्षीरे' (४1१1१००) शृतं निपात्यते । स्वितः] स्वर 'यांक प्रापणे' (१०६२) या । स्वर्याति स्म । [अन्तर्भूतः] अन्तर्भवति स्म । ‘गत्यर्था०' (५।१।११) क्तप्र०→त । [प्रातःसवनम] प्रातर 'वूडौक प्राणिगर्भविमोचने' (११०७) पू । 'षः सोऽष्ट्य-ष्टिव-ष्वष्कः' (२।३।९८) सू । प्रातः 卐 श० म० न्यासानुसन्धाने - समासान्तेऽति 'अवर्णवर्णस्य' (७।४।६८) इतीकारलोपे । P + प्रवृद्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy