SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ २१६ [अतिराजा] पूजितो राजा ।।छ।। आङल्पे ||३११४६।। ra [आकडारः] ईषत् कडारः = आकडारः । [आपिङ्गलः] ईषत् पिङ्गलः = आपिङ्गलः । [आबद्धम्] आ बध्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । 'अधश्चतुर्थात् तथोर्धः' (२११७९) त०→ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध०→द० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [आयुक्तम् आ युज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'क्तेऽनिटश्च-जो०' (४।१।१११) ज०→ग०(?) ('च-जः क-गम्' (२।१1८६) ज०→ग०) । 'अघोषे प्रथमोऽशिटः' (१३५०) ग०-→क० । प्रथमा सि । अतः स्यमोऽम' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ॥छ।। प्रा-ऽत्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्याः प्रथमाद्यन्तैः ।।३।१।४७।। [प्राऽत्यवपरिनिरादयः] प्रश्च अतिश्च अवश्च परिश्च निर च = प्राऽत्यवपरिनिरः, प्राऽत्यवपरिनिर आदिर्येषां (आदयो येषां) ते । [गतकान्तक्रुष्टग्लानक्रान्ताद्यर्थाः] गतश्च क्रान्तश्च क्रुष्टश्च ग्लानश्च क्रान्तश्च = गतक्रान्तक्रुष्टालानक्रान्ताः, गतक्रान्तक्रुष्टग्लानक्रान्तादयोऽर्थो() येषां ते । [प्रथमाद्यन्तैः] प्रथमा आदिर्यासां ताः = प्रथमादयः, प्रथमादयोऽन्ते येषां तानि = प्रथमाद्यन्तानि, तैः । [प्राचार्यः] प्रगत आचार्यः = प्राचार्यः । [प्रान्तेवासी] प्र । अन्त । प्रगतमन्तं = प्रान्तम्, तस्मिन् । 'वसं निवासे' (९९९) वस् । प्रान्ते वसन्तीत्येवंशीलः । 'अजातेः शीले' (५।११५४) णिन्प०→इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । 'शय-वासिवासेष्वकालात्' (३।२।२५) अलुप्समासः । [समर्थः] सङ्गतोऽर्थः = समर्थः ।। [अतिखद्वः] अतिक्रान्तः खद्वां = अतिखट्वः । [उद्वेलः] उद्गतो वेलामुद्देलः । [अवकोकिलः] अवकृष्टः कोकिलया = अवकोकिलः । [परिवीरुत] परिणद्धो वीरुद्भिः = परिवीरुत् । [पर्यध्ययनः] परिग्लानोऽध्ययनाय = पर्यध्ययनः । [अलंपुरुषीणः] शक्तः पुरुषेभ्योऽलंपुरुषीणः । 'अषडक्षा-ऽऽशितंग्वलङ्कर्मा-ऽलंपुरुषादीनः' (७।१।१०६) ईनप्र० । प्रथमा सि । 'सो रुः' (२११७२) र० । 'रः पदान्ते०' (११३५३) विसर्गः । [अन्तरङगुलो नखः] अन्तरङ्गुली मांडीयइ । अन्तर्गतोऽगुल्याः = अन्तरङ्गुलः । “संख्या-ऽव्ययादगुलेः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy