SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ योग्यता- वीप्सा - ऽर्थानतिवृत्ति - सादृश्ये || ३|१|४० ॥ [योग्यतावीप्साऽर्थानतिवृत्तिसादृश्ये] योग्यता च वीप्सा च अर्थानतिवृत्तिश्च सादृश्यं च = योग्यतावीप्साऽर्थानतिवृत्ति सादृश्यम्, तस्मिन् । [ अनुरूपं चेष्टते] रूपस्य योग्यं = अनुरूपम् । 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः ' ( ३।२।२) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । [प्रत्यर्थं शब्दा अभिनिविशन्ते] अर्थमर्थमभिव्याप्यं प्रत्यर्थम् । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अमव्ययीभावस्या०' ( ३।२।२) अम: स्थाने अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः । शब्दा अनेकार्था इत्यर्थः । [प्रतिपर्यायम् ] पर्यायं २ अभिव्याप्यं प्रतिपर्यायम् । [ यथाशक्ति पठ] शक्तेरनतिक्रमेण = यथाशक्ति | [ यथाबलम् ] बलस्याऽनतिक्रमेण यथाबलम् । 'क्रियाविशेषणात् ' (२।२।४१) अम् । [सशीलमनयोः ] शीलस्य सादृश्यं सशीलम् । [ सव्रतमनयोः ] व्रतस्य सादृश्यं = सव्रतम् । 'अकालेऽव्ययीभावे' ( ३।२।१४६) सभावः । [सकिखि] किख्याः सादृश्यं सकिखि । 'अकालेऽव्ययीभावे' (३।२।१४६) सभावः, मर्कटी जीवः ॥ छ || P = = 1 यथाऽथा ।।३।१।४१ ।। [ यथा ] यथा प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ अथा ] 5 न था = अथा । 'नञत्' ( ३।२।१२५) न० अ० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । [ यथारूपं चेष्टते] यथारूप मांडणी । रूपस्याऽनुरूपं = यथारूपम्, योग्यतेत्यर्थः । [ यथावृद्धमभ्यर्चय] ये ये वृद्धा = यथावृद्धम् । द्वितीया शस्, अव्ययीभावादम् । [यथासूत्रमनुतिष्ठति] यथासूत्र मांडणीयइ । सूत्रस्याऽनतिक्रमेण = यथासूत्रम् । प्रथमा सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । [ यथा चैत्रस्तथा मैत्रः ] येन प्रकारेण = यथा ||छ || न विद्यते था यस्य सः = अथा । Jain Education International २१४ = गति - क्वन्यस्तत्पुरुषः ।। ३ । १ । ४२ ।। [गतिकु ] गतिश्च कुश्च = गतिकु । प्र० सि० । सूत्रत्वात् लोपः । [ तत्पुरुषः ] स श्चासौ पुरुषश्च = तत्पुरुषः । [ऊरीकृत्य ] ऊरीकरणं पूर्वम् । [ खाट्कृत्य ] खाट्करणं पूर्वम् । [पटपटाकृत्य ] पटत् 'डुकृंग् करणे' (८८८ ) कृ । अपटत् पटत्करणं पूर्वम् । 'अव्यक्ताऽनुकरणादनेकस्वरात् कृभ्वस्तिनाऽनितौ द्विश्च' (७।२।१४५) डाच्प्र० आद्वित्वं च । 'डाच्यादौ' (७।२।१४९) तलोपः । ' डित्यन्त्यस्वरादेः' ( २ ।१ ।११४) अन्त्यस्वरादिलोपः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy