SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ अतितैसृकम् ] तिसृका नाम ग्रामः तस्यां भवानि जातानि वा । 'भवे' (६।३।१२३) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः तै । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । तैसृकाणामाच्छादनानां न संप्रत्युपभोगोऽयं कालः । [ अत्याम्रम् ] आम्राणां न संप्रत्युपभोगोऽयं कालः । २१३ [अनुरथं याति] रथस्य पश्चादनुरथम् । [अनुपादाम्] पदाति । पदातीनां समूहः । षष्ठ्याः समूहे' । ( ६।२१९) अण्प्र० । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । ‘अवर्णवर्णस्य' (७।४।६८) इलोपः । पादातस्य पश्चादनुपादातम् । [ अनुज्येष्ठं प्रविशन्तु ] ज्येष्ठस्याऽनुक्रमेणाऽनुज्येष्ठम् । प्र ' विशंत् प्रवेशने' (१४१५ ) विश् । पञ्चमी अन्तु । 'तुदादे: श:' ( ३।४।८१) शप्र ० अ । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ अनुवृद्धं साधून ] वृद्धानामनुक्रमेणाऽनुवृद्धम् । 'अर्च (र्चि) ण् पूजायाम्' (१९५४) अर्च् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । [इतिभद्रबाहु ] इति भद्रबाहुः । [तद्भद्रबाहु ] तद् भद्रबाहुः । [ अहोभद्रबाहु ] अहो भद्रबाहुः । [सचक्रं धेहि ] चक्रेण सहैककालं चक्राणि युगपद्वा = सचक्रम् । 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'डुधांक् धारणे च' (११३९) धा । पञ्चमी हि । 'हौ द:' ( ४।१।३१) आ० ए० । [ सधुरं प्राज] धुरया सहैककालम् । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः । 'अवर्णेवर्णस्य' ( ७।४।६८) आलोपः । 'अकालेऽव्ययीभावे' ( ३।२।१४६) सभावः सर्वत्र । 'अज क्षेपणे च' (१३९) अज्, प्रपूर्व० । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । [सव्रतम्] व्रतस्य सदृशं = सव्रतम् । [सशीलम् ] शीलस्य सदृशं [सकिखि] किखेः सदृशं [ सदेवदत्तम् ] देवदत्तस्य सदृशं देवदत्तम् । [ सब्रह्य साधूनां संपन्नं ब्रह्मेत्यर्थः ] सह । ब्रह्मन् । संपन्नं ब्रह्म = सब्रह्म । [ सवृत्तं मुनीनाम् ] संपन्नं वृत्तं सवृत्तम् । [ सक्षत्रमिक्ष्वाकूणाम् ] संपन्नं क्षत्रं = सक्षत्रम् । 'अकालेऽव्ययीभावे' ( ३।२।१४६ ) सर्वत्र सहस्य सभावः । [सतुषम् ] तुषैः साकल्यम् । [ सपिण्डेषणमधीते] सह पिण्डैषणा, सपिण्डैषणामन्तं कृत्वा तत् । 'क्लीबे' (२।४।९७) ह्रस्वत् । प्रथमा । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । — Jain Education International सशीलम् । सकिखि, लउकडि नाम जीवस्य ( वः) । = [सषड्जीवनिकायमधीते] सह षड्जीवनिकाया, सषड्जीवनिकायमन्तं कृत्वा तत् । ' क्लीबे' ( २।४।९७) ह्रस्वत् । प्रथमा सि । 'अमव्ययीभाव० ' ( ३।२।२) अम् । 'अकालेऽव्ययीभावे' ( ३।२।१४६ ) सर्वत्र सहस्य सभावः । । छ || For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy