SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ विभक्ति-समीप- समृद्धि-व्यृद्धयर्थाभावा ऽत्यया ऽसंप्रति पश्चात् क्रम- ख्याति-युगपत्-सदृक्संपत्- साकल्याऽन्तेऽव्ययम् || ३ |१ |३९|| [विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावाऽत्ययाऽसंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक्संपत्साकल्याऽन्ते] संगता ऋद्धिः = समृद्धिः । विगता ऋद्धिः व्यृद्धिः । अर्थस्याऽभावोऽर्थाभावः । न त्ययोऽत्ययः । न संप्रति = असंप्रति | विभक्तिश्च समीपं च समृद्धिश्च व्यृद्धिश्च अर्थाभावश्च अत्ययश्च असंप्रतिश्च पश्चाच्च क्रमश्च ख्यातिश्च युगपच्च सदृक् च संपच्च साकल्यं च अन्तश्च = विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावाऽत्ययाऽसंप्रतिपश्चात्क्रमख्यातियुगपत्सदृक्संपत्साकल्याऽन्तम्, तस्मिन् । विभजनं = विभक्तिः । P P [ अधिस्त्रि निधेहि ] + स्त्रीषु अधि । 'क्लीबे' (२।४।९७) ह्रस्वः । [ उपकुम्भम् ] कुम्भस्य समीपं = उपकुम्भम् । सि । 'अमव्ययीभाव० ' ( ३।२।२) अम् अग्रे सर्वत्र कार्यः । [ उपाग्नि] अग्नेः समीपम् । [उपशरदम् ] शरदः समीपम् । 'शरदादे: ' ( ७।३।९२ ) अत्समासान्तः । [सुमद्रम्] मद्रस्य राज्ञोऽपत्यानि । 'पुरु - मगध - कलिङ्ग-सूरमस-द्विस्वरादण्' (६।१।११६) अण्प्र० । 'बहुष्वस्त्रियाम्' ( ६।१।१२४) अण्लोपः । मद्राणां शोभना ऋद्धिः । [ सुमगधम् ] मगधानां शोभना ऋद्धिः । [सुभिक्षम् ] भिक्षायाः शोभना ऋद्धिः । [दुर्यवनम् ] यवनानामृद्धयभावः = दुर्यवनम् । [दुर्भिक्षम् ] भिक्षाया ऋद्धयभावः दुर्भिक्षम् । [निर्मक्षिकम्] मक्षिकाणामभावः [निर्मशकम् ] मशकानामभावः = निर्मशकम् । [अमक्षिकम् ] मक्षिकाणामभावः अमक्षिकम् । 'क्लीबे' (२।४१९७ ) ह्रस्वः । [ उन्मशकम् ] मशकानामभावः = उन्मशकम् । + अत्ययनमत्ययः । स्त्रीषु अधिकृत्य । Jain Education International = = [निवातम्] वातस्याऽभावः = निवातम् । [अतिवर्षम् ] वर्षाणामतीतत्वमतिवर्षम् । 'क्लीबे' (२।४।९७) ह्रस्वः । [ अतिशीतम् ] शीतानामतीतत्वं = अतिशीतम् । निशीतम् । [निशीतम् ] शीतानामतीतत्वं [निहिमम्] हिमानामतीतत्वं निहिमम् । [ अतृणम् ] तृणानामतीतत्वं अतृणम् । [नितृणम् ] तृणानामतीतत्वं नितृणम् । [अतिकम्बलम्] कम्बलस्योपभोगं प्रति नायं कालोऽतिकम्बलम् । = = = = = = निर्मक्षिकम् । 'क्लीवे' (२।४।९७) ह्रस्वः । For Private २१२ Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy