________________
२११
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[प्रान्तम्] प्रगतत्वमन्तस्य = प्रान्तम् । [समपक्षम् समत्वं पक्षाणाम् । [समानतीर्थम] समानत्वं तीर्थस्य । [समानतीरम] समानत्वं तीरस्य = समानतीरम् ।
[द्विमुसलि] द्वौ मुसलौ यत्र प्रहरणे तत् । 'द्विदण्डयादिः' (७।३।७५) इच्समासान्तः । ‘अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[परमतिष्ठद्गु] परमं च तत् तिष्ठद्गु च ।
[“अतिष्ठद्गु जपन् सन्ध्याम्"] 'अतिष्ठद्गु ‘क्रियाविशेषणात्' (२।२।४१) अम् । 'जप मानसे च' (३३८) जप् । जपतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०→अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'पदस्य' (२१४८९) तलोपः । सन्ध्यामन्त्रोऽपि सन्ध्यता(याम) ।
[प्रसव्यम्] प्रगतं सव्यस्य । [अपसव्यम्] अपगतं सव्यस्य । [यत्प्रभृति] यस्मात् प्रभृति । [तत्प्रभृति तस्मात् प्रभृति । [इतः प्रभृति] अस्मात् प्रभृति ।।छ।।
नित्यं प्रतिनाऽल्पे ।।३।१।३७।। [प्रतिना] प्रति तृतीया टा । 'टः पुंसि ना' (१।४।२४) ना । [शाकप्रति] शाकस्याऽल्पत्वम् । नित्यं समासत्वादर्थकथनमेतत् ॥छ।।
संख्या-ऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ ।।३।१।३८।। [संख्याऽक्षशलाकम] संख्या च अक्षश्च शलाका च = संख्याऽक्षशलाकम् । 'क्लीबे' (२।४।९७) इस्वत् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[परिणा] परि तृतीया टा । 'ट: पुंसि ना' (१।४।२४) ना । [छूते] द्यूत सप्तमी ङि। [अन्यथावृत्तौ] अन्यथावर्त्तनमन्यथावृत्तिस्तस्याम् ।
[एकपरि] एकेनाऽक्षेण शलाकया वा न तथा वृत्तं यथा पूर्वं जये = एकपरि ।
[द्विपरि द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यथा पूर्वं जये = द्विपरि ।
[त्रिपरि त्रिभिरक्षैः शलाकाभिर्वा न तथा वृत्तं यथा पूर्वं जये = त्रिपरि ।
[चतुष्परि] चतुर्भिरक्षैः शलाकाभिर्वा न तथा वृत्तं यथा पूर्वं जये = चतुष्परि ।
[शलाकापरि शलाकया न तथा वृत्तं यथा पूर्वं जये = शलाकापरि ।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org