________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
तिष्ठन्त्यो गावो यत्र सः कालस्तिष्ठद्गु । ' परतः स्त्री० ' ( ३।२।४९) पुम्वत् । 'क्लीबे' (२।४।९७) ह्रस्वत् । तिष्ठन्ति व यस्मिन्नित्यर्थकथनमात्रमेवाऽस्ति अथवैतदेव क्रियते, यतः तिष्ठन्तीति शतृ ततो मध्यस्थः समासः कार्यः । 'क्लीबे' ( २।४ ।९७) ह्रस्वत् । प्रथमा सि । ‘अमव्ययीभावस्याऽतो० ' ( ३।२।२) सि० अ० । 'अनतो लुप्' (३।२।६) अम्लोपः, सर्वत्र ज्ञेयः । [वहद्गु] 'वहीं प्रापणे' (९९६) वह् । वहन्तीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० - अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अधातूदृदितः ' (२।४।२ ) ङी । वहन्त्यो गावो यत्र सः कालो वहद्गु । ' परतः स्त्री० ' ( ३।२।४९) पुंवत् । 'क्लीबे' (२।४।९७) ह्रस्वत् । वहन्ति गावो यस्मिन्नित्यर्थकथनमेवाऽस्ति । अग्रे तिष्ठद्गुवद् ज्ञेयः ।
[आयतीगवम्] ‘इंण्क् गतौ ' (१०७५) इ, आङ्पूर्व० । आयन्तीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० →अत् । ‘ह्विणोरप्विति व्- यौ' ( ४।३।१५) यादेशः । ' अधातूदृदितः ' (२।४।२) ङी । आयन्त्यो गावो यस्मिन् काले सः । आयन्ति गावो यस्मिन्नित्यर्थकथनमेवाऽस्ति, अत एव निपातनाद् अत्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७० ) अव् । पुंवद्भावभावश्च येन प्रथमान्ता एवाऽन्यपदार्थे समस्यन्ते तेन किं सिद्धम् ।
[खलेयवम् ] खले यवा यस्मिन् देशे तत् ।
[अधोनाभम् ] नाभेरधोऽधोनाभम् । अत एव निपातनादत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । प्रथम सि । 'अमव्ययीभावस्याऽतो०' (३।२।२) अम् ।
[ समपदाति] समत्वं पदातीनां समपदाति ।
[ समभूमिः ] समा चासौ भूमिश्च ।
[ समपदातिः ] समाश्च ते पदातयश्च = समपदातिः ।
[विषमम् ] विषमत्वं समस्य, विषमत्वं समायाः, विषमाः समा यत्र तत् ।
[निष्षमम्] निर्गतत्वं समस्य, निर्गतत्वं समायाः, निर्गताः समा यत्र तत् ।
[दुष्षमम्] दुष्टत्वं समस्य, दुष्टत्वं समायाः, दुष्टाः समा यत्र तत् ।
[ अपरसमम्] अपरत्वं समस्य, अपरत्वं समायाः, अपराः समा यत्र तत् । सर्वत्र 'क्लीवे' (२।४।९७ ) ह्रस्वः ।
[पापसमम्] समायाः पापस्य, पापाः समानि यत्र, पापा समा = पापसमम् ।
[ पुण्यसमम् ] समायाः पुण्यत्वं, पुण्यानि समानि यत्र, पुण्या समा =
पुण्यसमम् ।
[पापसमम् ] पापेन समम् ।
[प्राह्णम् ] प्र । अहन् । प्रगतं प्रकृष्टत्वं वाऽहूनः । 'अतोऽह्नस्य' (२।३।७३) न००, निपातनादनादेशः ।
[ प्रथम् ] प्रगतत्वं प्रकृष्टत्वं वा रथस्य = प्ररथम् ।
[ प्रमृगम् ] प्रगतत्वं प्रकृष्टत्वं वा मृगा यत्र तत् ।
[ प्रदक्षिणम् ] प्रकृष्टत्वं दक्षिणायाः प्रदक्षिणम् । 'क्लीबे' (२।४।९७ ) ह्रस्वः ।
२१०
=
[प्राह्णः ] प्रगतमहः = प्राह्णः । 'अतोऽह्नस्य' (२।३।७३) न० ० । [ प्ररथः] प्रगतो रथः ।
[ प्रमृगः ] प्रगतो मृगः = प्रमृगः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org