SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०९ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । 'अशः' (२०४३) डी । अपाच्यामदूरे वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'लुबञ्चेः' (७।२।१२३) एनलोपः । 'ड्यादेhणस्या०' (२।४।९५) डीनिवृत्तिः । 'च-जः क-गम्' (२।१८६) च० → क० । अपाग् ग्रामात् । [उदग्ग्रामं वृष्टो मेघः] उद् 'अशू गतौ च' (१०५) अश् । उदञ्चतीति क्विप् । 'अञ्चोऽनायाम्' (४।२।४६) नलोपः । 'अशः' (२।४।३) ङी । उदच्यामदूरे वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'लुबञ्चेः' (७।२।१२३) एनलोपः । 'ड्यादेौणस्या०' (२।४।९५) ङीनिवृत्तिः । 'च-जः क-गम्' (२१११८६) च०→क० । उदग् ग्रामात् । [परि वृक्षं विद्योतते विद्युत् वृक्ष द्वितीया अम् ।।छ।। ___ लक्षणेनाऽभि-प्रत्याभिमुख्ये ।।३।१।३३।। __ [अभिप्रत्याभिमुख्ये] अभिश्च प्रतिश्च = अभिप्रती । औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई । अभिमुखस्य भावः । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः, तस्मिन् । [अभ्यग्नि शलभाः पतन्ति] अभि अग्नि = अभ्यग्नि इत्यत्र द्वितीया । 'अनतो लुप्' (३।२।६) लोपः । [प्रत्यग्नि शलभाः पतन्ति प्रति अग्नि = प्रत्यग्नि इत्यत्र द्वितीया । ‘अनतो लुप्' (३।२।६) लोपः । [सुघ्नं प्रति गतः] प्रति गच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र०→त । [येनाग्निस्तेन गतः] येन-तेनौ प्रत्यर्थो । [अभ्यङ्का गावः] अभिमुखोऽङ्को यासां ताः = अभ्यङ्काः ।।छ।। दैर्घ्यऽनुः ।।३।१।३४।। [दैर्घ्य दीर्घस्य भावः = दैर्घ्यम् । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र०→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः, तस्मिन् । [अनुयमुनं मथुरा] अनु यमुनां दीर्घा । 'क्लीबे' (२१४।९७) ह्रस्वः । [वृक्षमनु विद्योतते विद्युत् विपूर्व० ‘धुति दीप्तौ' (९३७) द्युत् । विद्योतत इत्येवंशील । 'दिद्युद्-ददृद्-जगज्जुहू०' (५।२।८३) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः ।।छ।। समीपे ||३१|३५|| [अनुवनमशनिर्गता] अनु वनस्य समीपमनुवनम् । प्रथमा-सप्तमी वा । [अनुनृपं पिशुनाः] अनु नृपस्य समीपम् । सप्तमी ङि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ॥छ।। तिष्ठग्वित्यादयः ।।३।१।३६।। [तिष्ठग्वित्यादयः] तिष्ठद्गु इति आदिर्येषां ते । [तिष्ठदगु] 'ष्ठ गतिनिवृत्तौ' (५ ) ष्ठ । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे०' (न्याय० १/२९) स्था । तिष्ठन्तीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०→अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु-पा-घ्रा०' (४।२।१०८) तिष्ठ आदेशः । 'लुगस्या०' (२।१।११३) अलोपः । 'अधातूदृदितः' (२।४।२) ङी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy