________________
अथ तृतीयाsध्यायस्य प्रथमः पादः ॥
[ अग्रेसेनम् ] सेनाया अग्रम् । 'क्लीबे' (२।४।९७ ) ह्रस्वः ।
[अन्तर्गिरम्] गिरेरन्तः । 'गिरि - नदी - पौणमास्याग्रहायण्यपञ्चमवर्ग्याद् वा' ( ७।३।९०) अत्समासान्तः । 'अवर्णवर्णस्य' ( ७।४।६८) इलोपः ।
[गङ्गापारम् ] गङ्गायाः पारं गङ्गापारम् । अग्रेऽप्येवम् ।
[ गिर्यन्तः ] गिर्यन्त इत्यत्र ' तृप्तार्थ- पूरणा - ऽव्यया ऽतृश्० ' ( ३।१।८५ ) इत्यनेन निषिद्धोऽपि बाहुलकाद्भवति |छ ||
यावदियत्त्वे || ३ |१|३१ ॥
[यावदियत्त्वे] यावत् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । इदम् । इदं परिमाणमस्य । ' इदं किमोऽतुरिय्किय् चास्य' (७।१।१४८) इदंस्थाने इयादेश : - अतुप्रत्ययश्च । इयतो भावः = इयत्त्वम् । 'भावे त्व तल्' (७।१।५५) त्वप्र० । सप्तमी ङि । 'अवर्णस्ये० ' (१।२।६) ए ।
=
[यावदमत्रमतिथीन् भोजय] यावन्त्यमत्राणि = यावदमत्रम् । प्रथमा जस् । ' अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । 'भुजंप् पालना -ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जानान् प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र०→इ । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः ।
२०८
[यावद् दत्तं तावद् भुक्तम्] यावत् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । 'डुदांग्क् दाने' (११३८) दा । दीयते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'दत्' (४|४|१०) दा इत्यस्य दत् । 'भुजंप् पालना - ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'क्तेऽनिट०' (४।१।१११) ज०म० (?) । ('चजः क-गम्' (२।१।८६) ज० ग ० ) । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) ग० क० ॥ छ ॥
P
पर्यपा-ऽऽङ्-बहिरच् पञ्चम्या ||३|१|३२||
[पर्यपाऽऽड्बहिरच्] परिश्च अपश्च आङ् च बहिश्च अच्च = पर्यपाऽऽडुबहिरच् । प्रथमा जस् । पञ्चम्यर्थप्रधानात् प्रथमा क्रियाविशेषणविवक्षायां तु द्वितीया, यथा- आमे खलं संचरतामित्यादि । [परित्रिगर्त्तम् ] परि त्रिगर्त्तेभ्यः
परित्रिगर्त्तम् ।
[आग्रामम् ] आ ग्रामात् ।
[ बहिर्ग्रामम् ] बहिर्ग्रामात् ।
[प्राग्ग्रामम्] प्र 'अञ्च गतौ च' (१०५ ) अञ्च् । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । ‘अञ्चः’ (२।४।३) ङी । प्राच्यामदूरे वसति । 'अदूरे एनः' (७।२।१२२) एनप्र० । 'लुबञ्चेः' (७।२।१२३) एनलोपः । 'ड्यादेगौणस्या०' ( २।४।९५ ) डीनिवृत्तिः । 'च-जः क - गम्' (२।१।८६) च० क० । प्राग् ग्रामात् ।
तत् ।
[प्रत्यग्ग्रामम्] प्रति 'अञ्च गतौ च ' (१०५) अञ्च् । प्रत्यञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६ ) नलोपः । 'अञ्चः' (२।४।३) ङी । प्रतीच्यामदूरे वसति । 'अदूरे एन:' ( ७।२।१२२) एनप्र० । 'लुबञ्चेः' (७।२।१२३) एनलोपः । 'ड्यादेर्गौणस्या०' (२।४ । ९५ ) डीनिवृत्तिः । ' च जः क गम्' (२।१।८६) च० क० । प्रत्यग् ग्रामात् ।
[अपाग्ग्रामम्] अप 'अञ्च गतौ च ' (१०५ ) अञ्च् । अपाऽञ्चतीति क्विप् । 'अञ्चोऽनर्थायाम्' (४।२।४६) नलोपः ।
Jain Education International
-
For Private Personal Use Only
www.jainelibrary.org