________________
२०७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
'अवर्णेवर्णस्य' (७।४।६८) ईलोपः । प्रथमा सि । 'अमव्ययीभावस्या०' (३।२।२) अम् ।
[एकनदी] 5 एका नदी = एकनदी । 'पुम्वत् कर्मधारये' (३।२।५७) पुम्वत् । [द्वीरावतीको देशः] द्वे इरावत्यौ यत्र सः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र०→क ।
[द्विगोदावरि] द्वयोर्गोदावर्योः समाहारः = द्विगोदावरि । 'क्लीवे' (२।४।९७) ह्रस्वः । प्रथमा सि । ‘अनतो लुप्' (१।४।५९) सिलोपः ॥छ।।
वंश्येन पूर्वार्थे ।।३।१।२९।। [वंश्येन] वंश । वंशे भवः = वंश्यः । 'दिगादिदेहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । सप्तमी ङि (?) (तेन) ।
[पूर्वार्थ] पूर्वस्य उपचारात् पूर्वपदस्याऽर्थः = पूर्वार्थस्तस्मिन् । [एकमुनि व्याकरणस्य] एको मुनिर्वंश्यो व्याकरणस्य = एकमुनि । प्रथमा सि । ‘अनतो लुप्' (३।२।६) सिलोपः । [द्विमुनि व्याकरणस्य द्वौ मुनी वंश्यौ व्याकरणस्य = द्विमुनि । प्रथमा औ । 'अनतो लुप्' (३।२।६) औलोपः । [त्रिमुनि व्याकरणस्य त्रयो मुनयो वंश्या व्याकरणस्य । प्रथमा जस् । 'अनतो लुप' (३१२१६) इत्यनेन जस लोपः । [सप्तकाशि राज्यस्य] सप्त काशयो वंश्या राज्यस्य = सप्तकाशि राज्यस्य । [त्रिकोशलं राज्यस्य त्रयः कोशला वंश्या राज्यस्य = त्रिकोशलम् । प्रथमा जस् । 'अमव्ययी०' (३।२।२) अम् ।
[एकविंशतिभारद्वाजं कोशलस्य] एकविंशतिर्भारद्वाजा वंश्या अस्य सः । 'अनतो लुप' (३।२६) सिलोपः । भरद्व(द्वा)जस्येदम् । 'तस्येदम्' (६।३१६०) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । न त्वपत्ये 'याओ०' (६।१।१२६) इत्यनेन लोपः स्यात् ।
[द्विमुनिकं व्याकरणम्] द्वौ मुनी वंश्यावस्य = द्विमुनिकम् । ‘शेषाद् वा' (७।३।१७५) कच्प्र०→क । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।।छ।।
पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठ्या वा ।।३।१।३०।। [पारेमध्येऽग्रेऽन्तः] + पारे च मध्ये च अग्रे च अन्तश्च = पारेमध्येऽग्रेऽन्तर । प्रथमा सि । 'अनतो लुप' (१।४।५९) सिलोपः ('अव्ययस्य' (३।२।७) सिलोपः) ।
[षष्ठ्या] षष्ठी तृतीया टा । [पारेगङ्गम्] गङ्गायाः पारम् । 'प्रथमोक्तं प्राक्' (३।१।१४८) पूर्वि । 'क्लीबे' (२।४।९७) ह्रस्वः । अनेन ए । [पारेसमुद्रम्] समुद्रस्य पारम् । 'प्रथमोक्तं प्राक्' (३।१।१४८) पूर्वि । [मध्येगङ्गम्]* गङ्गाया मध्यम् । अनेन ए । [मध्येसमुद्रम् समुद्रस्य मध्यम् ।
[अग्रवणम] वनस्याऽग्रम् । अनेन ए । 'निष्पा-ऽग्रे-ऽन्तः-खदिर०' (२।३।६६) न०→ण० । P+ एका चासो नदी च । 'सर्वादयोऽस्यादौ' (३।२।६१) इति पुम्वत् । P + पारेश्च मध्येश्च अग्रेश्च अन्तश्च । P * मध्यं गङ्गायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org