________________
अथ तृतीयाऽध्यायस्य प्रथमः पाद: ।।
२०६
→इ । 'इच्यस्वरे०' (३।२।७२) दीर्घ आ ।
[बाहूबाहवि बाहुभिश्च बाहुभिश्च मिथो गृहीत्वा कृतं युद्धम् । 'इज् युद्धे' (७।३।७४) इच्समासान्तःइ । ‘इच्यस्वरे०' (३।२।७२) दीर्घः ।
[दण्डादण्डि] दण्डैश्च दण्डैश्च मिथः प्रहृत्य कृतं युद्धम् । ‘इज् युद्धे (७।३७४) इच्समासान्तः→इ । 'इच्यस्वरे०' (३।२।७२) दीर्घः ।
[यष्टायष्टि] यष्टिभिश्च यष्टिभिश्च मिथः प्रहृत्य कृतं युद्धम् । ‘इच्यस्वरे०' (३।२।७२) इ०→आ० ।
[मुष्टामुष्टि] मुष्टिभिश्च मुष्टिभिश्च मिथः प्रहृत्य कृतं युद्धं इति मुष्टामुष्टि । 'इज युद्धे' (७।३।७४) इच्समासान्तः →इ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । 'इच्यस्वरे०' (३।२।७२) इ०→आ० ।
[अस्यसि] असिभिश्च असिभिश्च मिथः प्रहृत्य कृतं युद्धम् । ‘इच्यस्वरे दीर्घ आच्च' (३।२७२) इत्यनेन (दीर्घ आ) कथं न भवति ? अस्वरात् । सर्वत्र ‘अनतो लुप्' (३।२।६) सिलोपः । क्रियाविशेषणमिति केचित् ।
[हस्ते च हस्ते च गृहीत्वा कृतं सख्यम्] सखि । सख्युर्भावः = सख्यम् । 'सखि-वणिग्-दूताद् यः' (७।१।६३) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।।छ।।
नदीभिर्नाम्नि ||३।१।२७॥
[नदीभिः] नदी तृतीया भिस् । [नाम्नि] नामन् सप्तमी ङि । 'ई-डौं वा' (२।१।१०९) अस्य लुक् ।
[उन्मत्तगङ्गं देशः] उन्मत्ता गङ्गा यत्र तत् । 'परतः स्त्री०' (३।२।४९) पुम्वत् । 'क्लीबे' (२।४।९७) ह्रस्वः । 'अमव्ययीभाव०' (३।२।२) अम् ।
[तूष्णींगङ्गम्] तूष्णीं गङ्गा यत्र तत् । [शनैगङ्गम्] शनैर्गङ्गा यत्र तत् । प्रथमा सि । 'अमव्ययीभाव०' (३।२।२) अम् सर्वत्र । बहुवचननिर्देशात् तद्विशेषाणां स्वरूपस्य च ग्रहणं नदीभिरिति बहुत्वविशेषाश्च । गङ्गा-नर्मदाद्याः स्वरूपं सिन्धुश्रवन्तीत्यादि । [शीघ्रगङ्गो देशः] शीघ्रा गङ्गा यत्राऽसौ । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । ‘परतः स्त्री०' (३।२।४९) पुम्वत् सर्वत्र । [शुष्कतापी] शुष्का चासौ तापी च । प्रथमा सि । 'दीर्घझ्याब' (१।४।४५) सिलोपः ।।छ।।
संख्या समाहारे ।।३।१।२८ [समाहारे] सम्-आङ् 'हृग् हरणे' (८८५) हृ । समन्तादाहरणं = समाहारः । 'भावा-ऽकर्ताः' (५।३।१८) घञ्प्र० →अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर्, तस्मिन् ।
[द्वियमुनम्] द्वयोर्यमुनयोः समाहारः = द्वियमुनम् । 'क्लीवे' (२।४।९७) इस्वः । [त्रिगङ्गम] त्रयाणां (तिसृणां) गङ्गानां समाहारः । 'क्लीबे' (२।४।९७) ह्रस्वः ।
[पञ्चनदम्] पञ्चानां नदीनां समाहारः । 'गौणमुख्ययो:०' (न्यायसंग्रह: १।२२) इति न्यायात, 'संख्याया नदीगोदावरीभ्याम' (७।३।९१) अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः ।
[सप्तगोदावरम] सप्तानां गोदावरीणां समाहारः । 'संख्याया नदी-गोदावरीभ्याम्' (७।३।९१) अत्समासान्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org