________________
२०५
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
इन । 'अवर्णस्ये०' (१२१६) ए ।
[सपुत्र आगतः] सपुत्र आगत इत्यत्र ‘सहात् तुल्ययोगे' (७।३।१७८) कच् न भवति । [सच्छात्र आगतः] सच्छ(छा)त्र आगत इत्यत्र ‘संहात् तुल्ययोगे' (७।३।१७८) कच् न भवति । [सकर्मकः] सह कर्मणा वर्त्तते यः सः = सकर्मकः । [सलोमकः] सह लोमभिर्वर्त्तते = सलोमकः । 'शेषाद् वा' (७।३।१७५) कच्प्र०→क । [सपक्षकः] सह पक्षैर्वर्त्तत इति सपक्षकः ।।छ।।
दिशो रूढ्याऽन्तराले ॥३।१।२५।। [दक्षिणपूर्वा दिक्] दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा । 'सर्वादयोऽस्यादौ' (३।२।६१) पुम्वत् । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । पुनरपि 'आत्' (२।४।१८) आप्प्र०→आ ।
[पूर्वोत्तरा] पूर्व(र्वा)-उत्तरा मांडणी । पूर्वस्याश्च उत्तरस्याश्च दिशोर्यदन्तरालं सा । [उत्तरपश्चिमा] उत्तरा । पश्चिमा । उत्तरस्याश्च पश्चिमायाश्च दिशोर्यदन्तरालं सा ।
दिक्षिणपश्चिमा] दक्षिणा । पश्चिमा । दक्षिणस्याश्च पश्चिमायाश्च दिशोर्यदन्तरालं सा । 'सर्वादयोऽस्यादौ' (३।२।६१) पुम्वत् ।
[ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव] इन्द्रो देवताऽस्याः सा । कुबेरो देवताऽस्याः सा । 'देवता' (६।२।१०१) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ-औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण्नञ्-सञ्-टिताम्' (२।४।२०) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ।।छ।।
तत्राऽऽदाय मिथस्तेन प्रहत्येति' सरूपेण युद्धेऽव्ययीभावः ।।३।१।२६।। [तत्र तत्र प्रथमैक० सि । [आदाय] आदाय सप्तमी ङि । [मिथः] मिथस् प्रथमैक० सि ।
[सरूपेण समान रूपं यस्याऽसौ, तेन । 'समानस्य धर्मादिषु' (३।२।१४९) स० । 'रवर्णान्नो ण०' (२।३।६३) न०→ण ।
[अव्ययीभावः] अव्यय 'भू सत्तायाम्' (१) भू । अनव्ययस्याऽव्ययस्य भवनमव्ययीभावः । 'कृ-भ्वस्तिभ्यां कर्मकतृभ्यां०' (७।२।१२६) च्चिप्र० । 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (११३७) च्चिलोपः । 'भावाऽकोंः ' (५।३।१८) घञ्प०अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रथमा सि । 'सो रुः' (२।११७२) स०र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।
[केशाकेशि] केशेषु च केशेषु च मिथ आदाय कृतं युद्धम् । ‘इज् युद्धे' (७।३।७४) इच्समासान्तः->इ । 'इच्यस्वरे दीर्घ आच्च' (३।२।७२) दीर्घः ।
[कचाकचि] कचेषु च कचेषु च मिथो गृहीत्वा कृतं युद्धं इति कचाकचि । 'इज् युद्धे' (७।३।७४) इच्समासान्तः P मिर्थस् षष्ठी, तेन सि, प्रहत्य ङि, इति' ङि एतेषां सूत्रत्वाद् विभक्तेर्लोपः । P; अनव्ययमव्ययं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org