________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२०४
Vvvvv
[उच्चैर्मुखः] उच्चैः स्थाने मुखं यस्य सः = उच्चैर्मुखः । [कर्तुकामः] कर्तुं कामोऽस्य सः । 'तुमश्च मनः कामे' (३।२।१४०) मलोपः । [हतुकामः] हर्तुं कामोऽस्य सः । 'तुमश्च मनः कामे' (३।२।१४०) मलोपः ।
[राजन्वती भूरनेन] राजन् । शोभनो राजा विद्यते यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र०→मत् । 'राजन्वान् सुराज्ञि' (२191९८) म०व० । 'अधातूदृदितः' (२।४।२) डी ॥छ।।
उष्ट्रमुखादयः ।।३।१।२३।। [उष्ट्रमुखादयः] उष्ट्रमुखमादिर्येषां ते । [वृषस्कन्धः] वृषस्कन्धवत् स्कन्धो यस्य सः ।
हरिणाक्षी हरिणाक्षिणी इव अक्षिणी यस्याः सा । 'सक्थ्यक्ष्णः स्वाङ्गे (७।३।१२६) ट: समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः(?) ('अवर्णवर्णस्य' (७।४।६८) इलोपः) । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी ।
[इभकुम्भस्तनी] इभकुम्भाविव स्तनौ यस्याः सा । ‘असह-नञ्-विद्यमानपूर्वपदात्' (२।४।३८) ङी । [नागनासोरुः] नागनासे(सा) इव ऊरू यस्याः सा । 'उतोऽप्राणिन०' (२१४७३) ऊप्र०→ऊ। [चन्द्रमुखी] चन्द्रवन्मुखं यस्याः सा । 'नख-मुखादनाम्नि' (२।४।४०) ङी । 5 [कमलमुखी] कमलवन्मुखं यस्याः सा ।
[चक्रनितम्बा] चक्रवन्नितम्बं यस्याः सा । [पितृस्थानः] पितुरिव स्थानमस्य । [पितृस्थानीयः] पितरीव स्थानीयमस्मिन् । 'दोरीयः' (६।३।३२) ईयप्र० ।
ततो मध्यस्थं वाक्यं कार्यम् । उपमानपदस्य यथासंभवं लोपः इति कोऽर्थः ? - उष्ट्रमुखशब्दमध्यस्थितमुखस्य लोप इत्यर्थः ।
[उरसिलोमा उरसि स्थितानि लोमान्यस्य । [उदरेमणिः] उदरे स्थितो मणिर्यस्याऽसौ । [वहेगडुः] वह(हे) स्थितौ(तो) गडुर्यस्याऽसौ । बलीवर्दानां स्कन्धप्रदेशः ।
[कण्ठेकालः] कण्ठे कालोऽमीषूदाहरणेषु 'अमूर्द्ध-मस्तकात् स्वाङ्गा' (३।२।२२) अलुप्समासो व्यधिकरणो वा इति कोऽर्थः ? असमानाधिकरण्यम् ।
[प्रपलाशः, प्रपतितपलाशः] प्रपतितानि पलाशान्यस्य सः । [उद्रश्मिः, उद्गतरश्मिः] उद्गता रश्मयः - किरणा यस्य सः ।।छ।।
सहस्तेन ||३।१२४॥ [सहस्तेन सह प्रथमा सि । 'सो रुः' (२।१।७२) स०→२० । 'च-ट-ते सद्वितीये' (१९३७) र०→स० । तद् तृतीया टा । 'आ द्वेरः' (२।१।४१) द०→अ० । 'लुगस्यादेत्यपदे' (२१११३) अलोपः । 'टा-डसोरिन-स्यौ' (१।४५)
卐 मध्यमवृत्तौ - बृहद्वृत्तौ च - कमलवदना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org