________________
२०३
[ अध्यर्द्धचत्वारिंशा ] अध्यर्द्धा चत्वारिंशद् येषां ते ।
[ अर्द्धपञ्चमविंशाः ] पञ्चन् । पञ्चानां पूरणः = पञ्चमः । ‘नो मट्' (७।१।१५९) मट्प्र० म । 'नाम्नो नोऽननः ' (२।१।९१) नलोपः । अर्द्धं पञ्चमं येषां ते । अर्द्धपञ्चमा विंशतयो येषां ते ।
[ अर्द्धचतुर्थविंशाः ] अर्द्ध चतुर्थं येषां ते । अर्द्धचतुर्था विंशतयो येषां ते ।
[ अर्द्धतृतीयविंशाः ] अर्द्ध तृतीयं येषां ते । अर्द्धतृतीया विंशतयो येषां ते । 'प्रमाणी- संख्याड्डुः' ( ७।३।१२८) डप्र० । 'विंशतेस्तेर्डिति' (७।४।६७) तिलोपः । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । ।छ।।
अव्ययम् ||३|१ | २१ ॥
[अव्ययम्] न-वि-‘इंण्क् गतौ ' (१०७५) इ । न व्येति क्षरति स्वस्वरूपादित्यव्ययम् । 'युवर्ण-वृ-दृ-वश-रण-गमृद्ग्रहः' (५।३।२८) अल्प्र० अ । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नञत्’ ( ३।२।१२५) न० अ० । प्रथमा सि । 'अतः स्यमोऽम्' (१|४|५० ) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलोपः ।
[ उपदशाः] उप-समीपे दश येषां ते ।
[ उपविंशाः ] उप-समीपे विंशतिर्येषां ते ।
[ उपत्रिंशाः ] उप-समीपे त्रिंशद्येषां ते ।
[उपचत्वारिंशाः] उप-समीपे चत्वारिंशद्येषां ते । 'प्रमाणी- संख्याड्डुः' (७।३।१२८) डप्र० । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । प्रथमा जस् । 'अत आ स्यादौ ० ' (१।४।१) दीर्घः । 'समानानां०' (१।२।१) दीर्घः । 'सो रुः' (२।१।७२) स०र० । रः पदान्ते० ' (१।३।५३) विसर्गः ||छ ||
एकार्थं चानेकं च ||३ | १ ।२२ ।। [एकार्थम् ] एकः समानोऽर्थोऽधिकरणं यस्य तत् ।
[अनेकम् ] न एकमनेकम् । 'अन् स्वरे' ( ३।२।१२९) अन् ।
[ आरूढवानरो वृक्षः ] आरूढो वानरो यं सः = आरूढवानरः ।
[उपहृतबलिर्यक्षी] उपहृतो बलिरस्यै सा । यक्ष ' जातेरयान्त नित्यस्त्री-शूद्रात् ' (२।४।५४ ) ङी । 'अस्य ड्यां लुक्' (२।४।८६ ) अलोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[ वीरपुरुषको ग्रामः ] वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषकः । ' शेषाद् वा' (७।३।१७५) कच्प्र० । [सुसूक्ष्मजटकेशः ] 5 सूक्ष्मा जटा येषां ते सूक्ष्मजटाः । ‘परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुम्वत् । 'गोश्चान्ते० ' ( २ ।४ ।९६ ) ह्रस्वः । शोभनाः सूक्ष्मजटाः केशा अस्य सः ।
=
P
[ समन्तशितिरन्ध्रः ] संजातान्यन्तेषु शितीनि रन्ध्राण्यस्मिन् सः ।
[पञ्चगवधनः ] पञ्चन् । गो । पञ्च गावो धनमस्य सः । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । ' ओदौतोऽवाव्' (१।२।२४) अबू ।
[ पञ्चनावप्रियः ] पञ्च नावः प्रिया अस्य सः ।
सूक्ष्मा जटा येषु ते
Jain Education International
=
सूक्ष्मजटास्तपस्विनः ।
For Private
Personal Use Only
www.jainelibrary.org