SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। २०२ ___ सुज्-वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः ।।३।१।१९।। [सुज्वार्थ] सुच च वाश्च == सुज्वी, सुज्वोरर्थः = सुज्वार्थस्तस्मिन् । [बहुव्रीहिः] 5 बहवो वीहयो यस्य सः । [द्विदशाः] द्वि-दशन् । द्वौ वारावस्येति द्वि: । 'द्वि-त्रि-चतुरः सुच' (७।२।११०) सुचप्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । द्विर्दश । 'प्रमाणी-संख्याड्डः' (७।३।१२८) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२११११४) अन्लोपः । प्रथमा जस् । एवमग्रेऽपि । [त्रिचतुराः] त्रयो वा चत्वारो वा = त्रिचतुराः । ‘नञ्-सु-व्युप-त्रेश्चतुरः' (७।३।१३१) अपसमासान्तः । [पञ्चषाः] पश्चन् - षष् । पञ्च वा षड् वा । 'प्रमाणी-संख्याडः' (७।३।१२८) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [सप्ताष्टाः] सप्त वा अष्टौ वा = सप्ताष्टाः । 'प्रमाणी-संख्याडः' (७।३।१२८) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।।छ।। आसन्ना-ऽदूरा-ऽधिका-ऽध्या -ऽर्द्धादिपूरणं द्वितीयाद्यन्यार्थे ।।३।१।२०।। [आसन्नाऽदूराऽधिकाऽध्या दिपूरणम्] अर्द्धमादिर्यस्य तदर्द्धादि, अर्द्धादि च तत् पूरणं च = अर्द्धादिपूरणम् । अधिकम यस्याऽसौ । आसन्नं च अदूरं च अधिकं च अध्यर्द्धं च अर्द्धादिपूरणं च = आसन्नाऽदूराऽधिकाऽध्यर्दा दिपूरणम् । [द्वितीयाद्यन्यार्थे] + द्वितीया आदिर्यासां ताः = द्वितीयादयः, द्वितीयादयश्च तद् अन्यश्च = द्वितीयाद्यन्यत्, तस्याऽर्थो द्वितीयाद्यन्यार्थः, तस्मिन् । [आसन्नदशाः] आसन्ना दशत्वं येषां येभ्यो वा ते । 'प्रमाणी-संख्याड्डः' (७।३।१२८) डप्र० ।। [आसन्नविंशाः] आसन्ना विंशतिर्येषां येभ्यो वा ते । 'प्रमाणी-संख्याड्डः' (७।३।१२८) डप्र० । 'विंशतेस्तेर्डिति' (७।४।६७) तिलोपः । 'डित्यन्त्यस्वरादेः' (२१११४) अन्त्यस्वरादिलोपः । [आसन्नत्रिंशाः] आसन्ना त्रिंशद येषां ते । [अदूरदशाः] अदूरे दश येषां ते । [अदूरविंशाः] अदूरे विंशतिर्येषां ते । [अदूरत्रिंशाः] अदूरे त्रिंशद् येषां ते । [अधिकदशाः] अधिका दश येषां ते । [अधिकविंशाः] अधिका विंशत्(तिः) येषां ते । [अधिकत्रिंशाः] अधिका त्रिंशद येषां ते । [अध्यर्द्धविंशाः] अध्यर्दा विंशतिर्येषां ते । 'प्रमाणी-संख्याड्डः' (७।३।१२८) डप्र० । 'विंशतेस्तेर्डिति' (७।४।६७) तिलोपः । 'डित्यन्त्यस्वरादेः' (२।११११४) अन्त्यस्वरादिलोपः । [अध्यर्द्धत्रिंशाः] अध्यर्दा त्रिंशद् येषां ते । P卐 बहूनर्थान् वीणातीति बहुव्रीहिः ।। P + द्वितीया आदिर्यस्य तद् द्वितीयादि, द्वितीयादि च तदन्यच्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy