SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०१ [ निपुणपण्डितः ] निपुणं पण्डितः । [कुशलदक्षः] कुशलं दक्षः । [ चपलवत्सलः ] चपलं वत्सलः । [दारुणाध्यायकः] अधीतेऽध्यायकः । णकप्र० । 'नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः ऐ । दारुणमध्यायकः । [ अनाज्ञाताध्यायकः ] अ (ना) ज्ञातमध्यायकः । [ अयुताध्यायकः ] अयुतं - असंमिलितमध्यायकः । [ अद्भुताध्यायकः ] अद्भुतमध्यायकः । [भृशाध्यायकः ] भृशमध्यायकः । [घोराध्यायकः ] घोरमध्यायकः । [ परमाध्यायकः ] परममध्यायकः । [ स्वध्यायकः ] सुष्ठु अध्यायकः । [ अत्यध्यायकः ] अतिशयेनाऽध्यायकः । [सर्वचर्मीणो रथः] सर्वश्चर्मणा कृतः । 'सर्वचर्मण ईनेनञी' (६।३।१९५) ईनप्र० । 'नोऽपदस्य तद्धिते' (७|४|६१ ) श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । अनुलोपः । [ अद्यश्वीना गौ: ] अद्य - श्वस् । अद्य श्वो वा विजायते । समांसमीनाऽद्यश्वीना ऽद्यप्रातीना ऽऽगवीन- साप्तपदीनम्' (७/१/१०५ ) ईनप्र० । 'प्रायोऽव्ययस्य' ( ७|४|६५) अस्लोपः । ध (स्) शब्देन कल्पः कथ्यते । [दशैकादशिकः] दशभिरेकादश दशैकादश, तान् गृह्णाति । 'दशैकादशादिकश्च' ( ६ | ४ | ३६) इकप्र० । [ ऊर्ध्वमौहूर्तिकम् ] ऊर्ध्वं मुहूर्ताद्भवः (वम्) । सप्तमी चोर्ध्वमौहूर्तिके' ( ५।३।१२) "मौ” निर्देशात् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः मौ । 'अवर्णवर्णस्य' (७।४।६८ ) अलोपः । = [ और्ध्वदेहिकम् ] ऊर्ध्वं देहाद्भवः (वम्) । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० - इक । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः ऊ० औ । [ और्ध्वदमिकम् ] ऊर्ध्वं दमिकात् (?) (दमात्) भवः (वम्) । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० - इक । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । [कृतपूर्वी कटम् ] कृतः (तं ) पूर्वं कटोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः । प्रथमा सि । ' इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७ ) दीर्घः । [भुक्तपूर्वी ओदनम् ] भुक्तः (क्तं ) पूर्वमोदनोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७ ) इन्प्र० । 'अवर्णेवर्णस्य' ( ७|४ | ६८ ) अलोपः । प्रथमा सि । इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । [दृष्टपूर्व: ] दृष्टः पूर्वम् । [ श्रुतपूर्वः ] श्रुतः पूर्वम् ||छ|| [ गतपूर्वी ग्रामम् ] गतः (तं) पूर्वं ग्रामोऽनेन । 'पूर्वमनेन सादेश्चेन्' (७।१।१६७ ) इन्प्र० । 'अवर्णवर्णस्य' (७|४|६८ ) अलोपः । प्रथमा सि । ' इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७ ) दीर्घः । कल्पे इत्यादी उत्तरपदप्रधानत्वात् । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy