________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२००
[प्राध्वं कृत्वा शकटं गतः] प्रगतमध्वानम् । 'उपसर्गादध्वनः' (७।३।७९) अत्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । ततोऽम् । 'अतः स्यमोऽम्' (१।४५७) अम् ।।छ।।
जीविकोपनिषदौपम्ये ।।३।१।१७।। [जीविकोपनिषद्] जीविका च उपनिषद् च = जीविकोपनिषद् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः ।
[औपम्ये] 5 उपमा । उपमाया भावः । ‘पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७१।६०) ट्यणप०-→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) आलोपस्तस्मिन् ।
[जीविकाकृत्य] जीविकामिव करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । ‘अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य०' (४।४।११३) तोऽन्तः ।
[उपनिषत्कृत्य] उपनिषदिव करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप' (३।२।१५४) यप् । 'हस्वस्य०' (४।४।११३) तोऽन्तः ||छ।।
नाम नाम्नैकार्थ्ये समासो बहुलम् ।।३।१।१८।। [ऐकायें] एकोऽर्थो यस्याऽसौ एकार्थः । एकार्थस्य भावः = ऐकार्थ्यम् । ‘पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलोपस्तस्मिन् ।
[समासः]* समस्यन्ते = संक्षिप्यन्तेऽनेकार्थानि नामानीति समासः ।
[बहुलम् बहु 'लांक आदाने' (१०६८) ला ।+ बहून् प्रवृत्ति-निवृत्त्यादीन् अर्थान् लातीति । 'क्वचित्' (५।१1१७१) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
नित्यसमासत्वाद् वाक्यं न भवतीति तात्पर्यार्थम् ।
[कुम्भकारः] कुम्भं करोत्यत्र नन्वत्र कुंभ(भ)शब्दाद् द्वितीया न प्राप्नोति किन्तु 'कर्मणि कृतः' (२।२।८३) इति षष्ठी, सत्यम् - न नाम्येकस्यरात्०' (३।२।९) इत्यत्राऽमो ग्रहणात् ।
[छात्राणां पञ्चमः] छात्राणामित्याद्यत्र 'तृप्तार्थ-पूरणा-ऽव्यया०' (३१९८५) इति समासो न स्यात् ।।
[रामो जामदग्न्यः] जमदग्नि । जमदग्नेरपत्यं [वृद्ध] जामदग्न्यः । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) इलोपः ।
[विस्पष्टपटुः] विस्पष्टं पटुः । [विविक्तकषायः] विविक्तं कषायः । [व्यक्तलवणः] व्यक्तं लवणः । [संपन्नमधुरः] संपन्नं मधुरः । [पट्वम्लः] पटुं अम्लः ।
P卐 P * P +
उपमानमुपमा । 'उपसर्गादातः' (५।३।११०) अड्य० । उपमैव = औपम्यम् । 'भेषजादिभ्यष्ट्यण' (७।२।१६४) ट्यणप्र० । समसनं = समासः । समस्यन्ते नामान्यत्रेति वा समासः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । बहु लातीति । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org