SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [दुर्मनायते दुर्मनस् । दुष्टं मनो यस्याऽसौ दुर्मनाः । अदुर्मना दुर्मना भवति । 'व्यर्थे भृशादेः स्तोः' (३।४।२९) क्यङ्म०→य-सलोपश्च । दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अभिमनायते] अभि मनो यस्याऽसौ अभिमनाः । अनभिमना अभिमना भवति । 'च्यर्थे भृशादेः स्तोः' (३।४।२९) क्यम०→य - सलोपश्च । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [अतिहस्तयति] अति - हस्तिन् । हस्तिनातिक्रामति । "णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र०→इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१२।२३) अय् । [अभिषेणयति] अभि - सेना । सेनया अभियाति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरादिलोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।।छ।। ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ।।३।१।२।। [उाद्यनुकरणच्चिडाचः] ऊरी आदिर्येषां ते = ऊर्यादयः । 'ऊर्यादयश्च अनुकरणं च च्विश्च डाच् च = ऊर्याद्यनुकरणच्चिडाचः, प्रथमा जस् । [गतिः] गम् । गमनं = गतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र०→ति । [ऊरीकृत्य ऊरी 'डुकंग करणे' (८८८ ) कृ । ऊरीकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यबादेशः । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।। [उररीकृत्य] उररी 'डुबंग करणे' (८८८) कृ । उररीकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यबादेशः । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।। [ऊरीकृतम्] ऊरीकरणम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र०-→त । [उररीकृतम्] उररीकरणम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । [खाटकृत्य खाटकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप' (३।२।१५४) यबादेशः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [फूत्कृत्य] फूत्करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यबादेशः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । शुक्लीकृत्य अशुक्लस्य शुक्लस्य करणं पूर्वम् । 'कृ-भ्वस्तिभ्यां-कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० । 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यबादेशः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [घटीकृत्य] अघटस्य घटस्य करणं पूर्वम् । 'कृ-भ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'ईश्च्वावर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यबादेशः । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy