________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
[पटपटाकृत्य] पटत् । अपटत् पटत् करणं पूर्वम् । ‘अव्यक्ताऽनुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च' (७।२।१४५) डाचप्र०→आ, पटत् द्विर्वचनं च । 'डाच्यादौ' (७।२।१४९) अग्रेतनस्य तकारस्य लोपः । 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[सपत्राकृत्य] असपत्रस्य सपत्रस्य करणं पूर्वम् । ‘सपत्र-निष्पत्रादतिव्यथने' (७।२।१३८) डाचप्र०→आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । 'प्राक्काले' (५।४।४७) क्त्वाप० । अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[प्रकृत्य प्रकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[पराकृत्य] पराकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[प्रकृतम् प्रकरणं = प्रकृतम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
[पराकृतम्] पराकरणं = पराकृतम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।।छ।।
कारिका स्थित्यादौ ।।३।१३।। [स्थित्यादौ] स्थितिरादिर्यस्याऽसौ स्थित्यादिस्तस्मिन् ।
[कारिकाकृत्य] 'डुकंग करणे' (८८८) कृ | करणं = कारिका । 'भावे' (५।३।१२२) णकप्र० । 'अस्याऽयत्०' (२।४।१११) इ । कारिकायाः करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हस्वस्य०' (४।४।११३) तोऽन्तः । [कारिकां कृत्वा] करणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० ।।छ।।
भूषा-ऽऽदर-क्षेपेऽलं-सदसत् ।।३।१।४।। [भूषाऽऽदरक्षेपे] भूषा च आदरश्च क्षेपश्च = भूषाऽऽदरक्षेपम्, तस्मिन् । [अलंसदसत्] अलं च सच्च असच्च । प्रथमा जस् । सूत्रत्वात् लोपः । [अलंकृत्य] अलंकरणं पूर्वम् । [अलंकृतम्] अलंकरणं = अलंकृतम् । 'क्लीवे क्तः' (५।३।१२३) क्तप्र०→त । [सत्कृत्य] सत्करणं पूर्वम् । [सत्कृतम्] सत्करणं = सत्कृतम् । 'क्लीवे क्तः' (५।३।१२३) क्तप्र०→त । [असत्कृत्य] असत्करणं पूर्वम् । [असत्कृतम्] असत्करणं = असत्कृतम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । [अलं कृत्वा] अलं करणेन । 'निषेधेऽलं-खल्वोः क्त्वा' (५।४।४४) क्त्वाप्र०→त्वा । [सत् कृत्वा] सद्विद्यमानं करणं पूर्वम् । क्त्वाप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org