SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ १९४ Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwe [प्रवसति प्रवसति = गच्छति इत्यर्थः । [प्रलीयते] प्रलीयते = विनश्यति इत्यर्थः । [प्रतीक्षते] प्रतीक्षते = प्रतिपालयतीत्यर्थः । [प्रतिपालयति] प्रतिपालयति = प्रतीक्षते इत्यर्थः । [प्राणिति] प्र ‘अन प्राणने' (१०८९) अन् । वर्त्तः तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट्→इ । 'द्वित्वेऽप्यन्तेप्यनितेः परेस्तु वा' (२।३।८१) न०→ण० । [निष्टपति निस् 'तपं सन्तापे' (३३३) तप् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'निसस्तपेऽनासेवायाम्' (२।३।३५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०-८० [प्रलम्बते] प्र 'लबुङ अवसंसने च' (७६६) लब । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) लम्ब् । वर्त्त० ते । 'कर्त्तर्यनद्भ्य शव्' (३।४।७१) शव् । [प्रार्थयते] प्र 'अर्थणि उपयाचने' (१९३१) अर्थ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।१७) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [विजयते वि 'जिं अभिभवे' (८) जि । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'परा-वेर्जेः' (३।३।२८) आत्मनेपदम् । [विजानाति] वि 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र०→ना । 'जा ज्ञाजनोऽत्यादौ' (४।२।१०४) जा । [निमीलति] नि ‘मील निमेषणे' (४१५) मील् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । निखजति] नि 'खजु गतिवैकल्ये' (१४७) खज् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) खच् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [प्रेजुः] प्र ‘यजी देवपूजासङ्गतिकरणदानेषु' (९९१) यज् । परीक्षा उस् । 'यजादि-वचेः किति' (४।१।७९) इत्यादिना वृत य०→इ० । 'द्विर्धातुः परोक्षा डे०' (४।११) "इज्" द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलोपः । अन्तरङ्गत्वाद् दीर्घत्वं तत एत्वम् । अथवा यज्, परीक्षा उस् । 'यजादि-वचेः किति' (४।१।७९) य्वृत् य०→इ० । 'द्विर्धातुः परोक्षा-३०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलोपः । प्रथममत्वं ततो अय् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलोपः । पुनरेत्वं कार्यम् । [प्रोपुः] प्र 'डुवपी बीजसन्ताने' (९९५) वप् । परोक्षा उस् । 'यजादि-वचेः किति' (४।१।७९) इत्यादिना य्वृत् व० →उ० । 'द्विर्धातुः परोक्षा-२०' (४।१।१) “उप्" द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । अन्तरङ्गत्वाद् दीर्घत्वं तत ओत्वम् । अथवा वप्, परोक्षा उस् । 'यजादि-वचेः किति' (४१७९) य्वृत् व०→उ० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्वित्वम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलोपः । प्रथममोत्वं ततो अव् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) वलोपः । पुनरोत्वं कार्यम् । [सुमनायते] सुमनस् । शोभनं मनो यस्याऽसौ सुमनाः । असुमनाः सुमना भवति । 'व्यर्थे भृशादे: स्तोः' (३।४।२९) क्यप्र०→य - सलोपश्च । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy