SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८१ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । (२।३।६३) न०→ण० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । भरण्या गुप्तः । [रोहिणिमित्रः] रोहिण । 'रेवत-रोहिणाद् भे' (२।४।२६) डीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । रोहिण्या मित्रः । महित्रातः] मही 'त्रै पालने' (६०५) त्रै । 'आत् सन्ध्यक्षरस्य' (४।२।१) त्रा । महीं त्रायते स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५1१1११) क्तप्र०→त । [महिदत्तः] मही 'डुदांगक दाने' (११३८) दा । महीं ददाति स्म । 'गत्यर्थाऽकर्मक-पिब-भुजेः' (५।१1११) क्तप्र० →त । 'दत्' (४।४।१०) दा०-→ददादेशः । [महिगुप्तः] मह्यां गुप्तः । [शिलवहम] शिला 'वहीं प्रापणे' (९९६) वह । शिलां वहतीति । 'लिहादिभ्यः' (५।१५०) अच्प्र०→अ । [शिलप्रस्थम] शिला प्र-स्था (२।२।२०) सूत्रवत् । शिलां प्रकर्षेण तिष्ठतीति । 'स्था-पा-स्ना-त्रः कः' (५।११४२) कप्र० →अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । अनेन सर्वत्र हूस्वत् । रेवतिमित्रः, रेवतीमित्रः] रेवत्या मित्रः ।। [पृथिविदत्तः, पृथिवीदत्तः] पृथिवीं ददाति स्म । ‘गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र०→त । 'दत्' (४।४।१०) ददादेशः । [गङ्गमहः, गङ्गामहः] 5 गङ्गायां महः-तेजः । [गङ्गदेवी, गङ्गादेवी] गङ्गा चासौ देवी च । [शिंशपस्थलम्, शिंशपास्थलम्] शिंशपानां स्थलम् । सर्वत्र अनेन विकल्पे ह्रस्वत् । [फल्गुनीमित्रः] फल्गुन्या मित्रः । [नान्दीमुखम्] नान्द्या मुखम् । [नान्दीतूर्यम्] नान्द्याः तूर्यम् । [नान्दीकरः] नान्द्याः करः । [नान्दीघोषः] नान्द्याः घोषः । [महीफलम्] मह्यां फलम् । [महीकरः] मह्यां करः । [महीविशालः] महीवद् विशालं यत्र । [लोमकागृहम्] लोमकाया गृहम् । [लोमकाखण्ड:] लोमकायाः खण्डः । [लेपिकागृहम्] लेपिकाया गृहम् । [लेपिकाखण्डः] लेपिकायाः खण्डः । [गङ्गाद्वारम्] गङ्गाया द्वारम् । P卐 गङ्गाया महः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy