________________
१८०
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥ क्तप्र०→त । 'कृ-भ्वस्तिभ्यां' (७।२।१२६) च्चिप्र० । 'ईश्च्याववर्णस्या-ऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः ।
[ऊरीकृत्य] ऊरी 'डुइंग् करणे' (८८८ ) कृ । ऊरीकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप्→य । हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[उररीकृत्य] उररी 'डुबंग करणे' (८८८ ) कृ । उररीकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप्→य । हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[इन्द्रहूपुत्रः] इन्द्र ‘डेंग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । इन्द्रं हयतीति क्विप् । 'यजादि-वचेः किति' (४।१७९) य्वृत् व०→उ० । 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः ऊ । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । इन्द्रहः पुत्रः ।
[शकहूपुत्रः] शक 'हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) हा । शकं ह्वयतीति क्विप् । 'यजादि-वचेः किति' (४।१।७९) यवृत् व०→उ० । दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ऊ । 'अप्रयोगीत्' (१।११३७) क्विप्लोपः । शकहः पुत्रः ।
[कारीषगन्धीपुत्रः] कारीषगन्ध्यायाः पुत्रः । 'ष्या पुत्र-पत्योः केवलयोरीच् तत्पुरुषे' (२।४।८३) ईच्-→ई । [कौमुदगन्धीपतिः] कौमुदगन्ध्यायाः पतिः । 'ष्या पुत्र-पत्योः केवलयोरीच तत्पुरुषे' (२।४।८३) ईच्→ई ।
[गार्गीपुत्रः] गर्ग । गर्गस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'यञो डायन च वा' (२।४।६७) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । गार्याः पुत्रः = गार्गीपुत्रः ।
[वात्सीपुत्रः] वत्स । वत्सस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'यञो डायन च वा' (२।४।६७) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । वात्स्याः पुत्रः ।
[श्रीकुलम्] श्रियः कुलम् । [भूकुलम्] भुवः कुलम् ।
[यवक्रीकुलम्] यव 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । यवान् क्रीणातीति क्विप् । 'अप्रयोगीत्' (११३७) क्विप्लोपः । यवक्रियः कुलम् ।
[कटपूकुलम्] कट च्युङ (५९४) - ज्युङ् (५९५) - जुंङ् (५९६) 'पुंङ् गतौ' (५९७) पु । कटं प्रवते । 'दिद्युद्ददृद्-जगज्जुहू-वाक्-प्राट्-धी-श्री-दू-स्तू-ज्वायतस्तू-कटपू-परिवाट्-भ्राजादयः क्विप्' (५।२।८३) क्विप्प० । 'अप्रयोगीत्' (११३७) क्विप्लोपः । कटपुवः कुलम् ।
[अग्नी पश्य] अग्नि । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) औ सउं ई । [पटू पश्य] पटु । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) औ सउं ऊ ।।छ।।
ड्यापो बहुलं नाम्नि ||२।४।९९।।
[ड्यापः] डीश्च आप् च = ड्याप्, तस्य । [भरणिगुप्तः] भरत । 'श्येतैत-हरित-भरत-रोहिताद् वर्णात तो नश्च' (२।४।३६) डीप्र०-त०→न० । 'रवर्णान्नो ण०'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org