________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
[श्रीपुरम् ] श्रियाः पुरम् ।
[ विष्टापुरम् ] विष्टायाः पुरम् ।
[ नदीस्रोतः ] नद्याः स्रोतः ।
[ खट्वापादः ] खट्वायाः पादः ॥ छ ||
त्वे ||२|४|१०० ||
[रोहिणित्वम्, रोहिणीत्वम् ] रोहिण 'रेवत- रोहिणाद् भे' (२।४।२६) डी | रोहिण्या भावः । भावे त्व-तल्' (७।१।५५)
त्वप्र० ।
[ अजत्वम्, अजात्वम्] अजाया भावः । ' भावे त्व-तल्' (७।१।५५) त्वप्र० । अज 'अजादे' (२।४।१६ ) आप् ततः समासः ॥ छ ॥
भुवोऽच्च कुंस-कुटयोः ।। २ । ४ । १०१ ।।
[कुंसकुट्योः ] 55 कुंसश्च कुटी च (कुटिश्च ), तयोः ।
[भुकुंसः, भ्रकुंसः ] + भुवः कुंसः । अनेन ह्रस्वः - द्वितीये अकारश्च ।
[भ्रुकुटि:, भ्रकुटिः] भुवः कुटिः । अनेन ह्रस्वः द्वितीये अकारश्च ।।छ।।
मालेषीकेष्टकस्यान्तेऽपि भारि - तूल-चिते ||२|४|१०२ ।।
[मालेषीकेष्टकस्य ] माला च इषीका च इष्टका च = मालेषीकेष्टकम् । 'क्लीबे' (२।४।९७) ह्रस्वत्, तस्य ।
[भारितूलचिते] भारी च तूलश्च चितश्च
भारितूलचितम्, तस्मिन् ।
[ मालभारी] माला 'टुडुभृंग्क् पोषणे च' (११४०) भृ । मालां बिभर्त्तीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र०→इन् । ‘नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः आर् । प्रथमा सि । इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः ।
१८२
[उत्पलमालभारी] उत्पलानां माला = उत्पलमाला । उत्पलमालां बिभर्त्तीत्येवंशीलः । 'अजातेः शीले' (५1१1१५४) णिन्प्र०—इन् । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धि: आर् । प्रथमा सि । ' इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । [मालभारिणी] मालां बिभर्त्तीत्येवंशीलः । ' अजातेः शीले' (५।१।१५४) णिन्प्र० इन् । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धि: आर् । 'स्त्रियां नृतोऽस्वस्रादेङीः ' (२|४|१) ङीप्र० । 'रषृवर्णान्नो ण० ' (२।३।६३) न० ० । [उत्पलमालभारिणी] उत्पलमालां बिभर्त्तीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र ० इन् । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् । 'स्त्रियां नृतोऽस्वस्रादेङी : ' (२।४।१) डीप्र० । 'रपृवर्णान्नो ण०' (२।३।६३) न० - ० ।
[ इषीकतूलम् ] इषीकायास्तूलम् ।
[ मुझेषीकतूलम् ] मुञ्जा चासौ इषीका च = मुझेषीका | मुझेषीकायास्तूलम् । [इष्टकचितम् ] इष्टकाभिश्चितम् ।
P कुंसश्च कुटिश्च = कुंसकुटी, तयोः ।
P +
'कुसु भासार्थाः ' (१७९५) कुस् । भ्रुवौ कुंसयति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org