SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७७ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । कोशातकी] कोशातकी । कोशातक्याः फलं विकारोऽवयवो वा । 'प्राण्यौषधिवृक्षेभ्योऽवयवे च' (६।२।३१) अणप्र० । 'फले' (६।२।५८) अणलोपः । अनेन ङीनिवृत्तिः । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङीप्र० । [पञ्चगोणिः पञ्चन-गोण । 'भाज-गोण-नाग०' (२०४।३०) डीप्र० । 'अस्य यां लुक' (२।४।८६) अलोपः । पञ्चभिर्गोणीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । [दशगोणिः] दशन्-गोण । 'भाज-गोण-नाग०' (२।४।३०) ङीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । दशभिर्गोणीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [पञ्चसूचिः] पञ्चन्-सूचि । ‘इतोऽक्त्यर्थात्' (२।४।३२) डीप्र० । पञ्चभिः सूचीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [दशसूचिः] दशन्-सूचि । 'इतोऽक्त्यर्थात्' (२।४।३२) ङीप्र० । दशभिः सूचीभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।।छ।। गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।।२।४।९६।। [अनंशिसमासेयोबहुव्रीहौ] अंश । अंशोऽस्याऽस्तीति अंशी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अंशिना समासोंऽशिसमासः । ॐ ईयांश्चासौ बहुव्रीहिश्च = ईयोबहुव्रीहिः । अंशिसमासश्च ईयोबहुव्रीहिश्च = अंशिसमासेयोबहुव्रीहिः । न अंशिसमासेयोबहुव्रीहिः = अनंशिसमासेयोबहुवीहिः । 'अन स्वरे' (३।२।१२९) अन, तस्मिन् । [चित्रगुः] चित्रा-गो । चित्रा गावो यस्याऽसौ । अनेन ह्रस्वः । ‘परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ् (३।२।४९) पुंवद्रावः । [पञ्चगुः] पञ्चभिर्गोभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लोपः । अनेन ह्रस्वः । [निर्वाराणसिः] निर-वाराणसी । निर्गतो वाराणस्याः = निर्वाराणसिः । अनेन ह्रस्वः । [निःश्रेयसिः] निर्गतः श्रेयस्याः = निःश्रेयसिः । अनेन ह्रस्वः । [अतिब्रह्मबन्धुः] ब्रह्मा बन्धुरस्याः सा । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ' (२।४७३) ऊङ्म०→ऊ । ब्रह्मबन्धूमतिक्रान्तोऽसौ । अनेन ह्रस्वः । [अतिवामोरुः] वामे ऊरू यस्याः सा । 'उपमान-सहित-संहित-सह-शफ-वाम-लक्ष्मणाद्यूरोः' (२।४।७५) ऊप्र० । वामोरूमतिक्रान्तोऽसौ । अनेन ह्रस्वः । [सुगौः] सु-गो । म पूजितो गौः = सुगौः । [राजकुमारी] राजन् - कुमार 'वयस्यनन्त्ये' (२।४।२१) डीप० । राज्ञः कुमारी = राजकुमारी । [परमब्रह्मबन्धूः] परमा चासौ ब्रह्मबन्धूश्च = परमब्रह्मबन्धूः । P卐 ईयसा बहुवीहि: = ईयोबहुव्रीहिः P卐फ शोभना गौः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy