________________
अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥
[ नक्षत्रमाला ] नक्षत्राणां माला ।
[प्रियगौः ] गामिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । गव्यतीति क्विप् । 'अतः ' ( ४।३।८२) अलोपः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । 'अप्रयोगीत् ' (१1१1३७) क्विप्लोपः । प्रिया गौः अस्य । [प्रियकुमारी चैत्रः] कुमारीमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० । कुमारयतीति क्विप् । + प्रिया कुमारी यस्याऽसौ । ' परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' ( ३।२।४९) पुंवद्भावः ।
[ अतितन्त्रीः ] तन्त्रीमतिक्रान्तोऽसौ
[ अतिलक्ष्मीः ] लक्ष्मीमतिक्रान्तोऽसौ ।
[ अतिश्रीः ] श्रियमतिक्रान्तोऽसौ ।
[अतिभूः ] भ्रुवमतिक्रान्तोऽसौ ।
[गोकुलम् ] * गवां कुलम् ।
[कुमारीप्रियः ] कुमारी प्रिया यस्याऽसौ । अनेन ह्रस्वः ।
[कन्यापुरम् ] कन्यायाः पुरम् ।
[सुगोप्रियः] पूजितो गौः सुगौः । सुगौः प्रिया यस्याऽसौ । अनेन ह्रस्वत् ।
[ राजकुमारीप्रियः ] राज्ञः कुमारी
[पञ्चशालाप्रियः ] पञ्चशाला प्रिया यस्याऽसौ । अनेन ह्रस्वत् ।
[ अतिराजकुमारिः ] राज्ञः कुमारी राजकुमारी । राजकुमारीमतिक्रान्तः असौ ।
[ अतिरत्नमालः ] रत्नानां माला = रत्नमाला । रत्नमालामतिक्रान्तः असौ ।
[बहुकुमारीकः ] ईषदपरिसमाप्ता कुमारी बहुकुमारीकः । ' शेषाद् वा' (७।३।१७५) कच्प्र० क 1 [बहुब्रह्मबन्धूकः] ब्रह्मा बन्धुरस्याः सा । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊड्प्र० । ईषदपरिसमाप्ता ब्रह्मबन्धूः = बहुब्रह्मबन्धूकः । ' शेषाद् वा' ( ७|३|१७५ ) कच्प्र० ।
1
[ अर्धपिप्पली] पिप्पल्या अर्धम् ।
=
राजकुमारी । राजकुमारी प्रिया यस्याऽसौ । अनेन ह्रस्वत् ।
=
Jain Education International
१७८
[ बहुश्रेयसी पुरुषः ] बह्व्यः श्रेयस्यो यस्याऽसौ । 'अधातूदृदितः ' (२।४।२) डीप्र० ।
[प्रियश्रेयसी ] प्रिय- श्रेयस् । 'अधातूदृदितः ' (२।४।२) डी । प्रियाः श्रेयस्यो यस्याऽसौ । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५ ) सिलोपः ॥ छ ॥
क्लीबे || २|४|१७|
[कीलालपम् ] कीलाल पां पाने' ( २ ) पा । कीलालं पिबतीति । 'मन् वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१।१।३७ ) विज्लोपः । अनेन ह्रस्वः ।
[ ग्रामणि] ग्राम 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७ ) नी । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ग्रामाऽग्रान्नियः' (२।३।७१) न०-० । अनेन ह्रस्वः ।
गोः कुलम् ।
P + प्रियश्चासी कुमारी च ।
P*
For Private Personal Use Only
www.jainelibrary.org