________________
अथ द्वितीयाऽध्यायस्य चतुर्थः पादः ॥
१७६
'समानानां०' (१।२।१) दीर्घः । तिसृभिः करभोरूभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः । अनेन ऊडलोपः ।
[कुवलम्] कुवल ‘गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डी । कुवल्या विकारः फलम् । 'विकारे' (६।२।३०) अण्प्र० । ‘फले' (६।२।५८) अण्लोपः ।
[पञ्चप्रेयान पञ्चन् - प्रिय । इमे प्रियाः, इमे प्रियाः, इमेऽमीषां मध्येऽतिशयेन प्रियाः = प्रेयांसः । 'गुणाझाद वेष्ठेयसू' (७।३।९) ईयसुप्र० । 'प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-रफा-वर-गर-बह-त्रप-द्राघ-वर्षवृन्दम्' (७।४।३८) प्रियस्य प्रादेशः । 'अवर्णस्ये०' (१२१६) ए । पञ्चभिः प्रेयोभिः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकण्लोपः । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'स्महतोः' (१।४८६) दीर्घत्वम् । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।११८९) सलोपः ।
[अवन्ती] अवन्ति । अवन्तेरपत्यम् । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (६।१।११८) ज्यप्र०→य । 'कुन्त्यवन्तेः स्त्रियाम्' (६।१।१२१) ज्यलोपः । 'नुर्जातेः' (२।४।७२) डीप्र० । 'समानानां०' (१।२।१) दीर्घः ।
[कुन्ती] कुन्ति । कुन्तेरपत्यम् । 'दु-नादि-कुर्वित् कोशला-ऽजादाभ्यः' (६।१।११८) त्र्यप्र० । 'कुन्त्यवन्तेः स्त्रियाम्' (६।१।१२१) ज्यलोपः । 'नुर्जातेः' (२।४।७२) डीप्र० । 'समानानां०' (१।२।१) दीर्घः ।
[कुरूः] कुरु । कुरोरपत्यम् । 'दु-नादि-कुर्वित्-कोशला-ऽजादाञ्ज्यः' (६।१।११८) ज्यप्र० । 'कुरोर्वा' (६।११२२) ज्यलोपः । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊम०-→ऊ । 'समानानां०' (१।२।१) दीर्घः ।
[पञ्चकुमारी] कुमारीमिच्छति । 'अमाव्ययात् क्यन च' (३।४।२३) क्यन्प्र० । कुमारीयतीति क्विप् । पञ्चकुमार्यो देवता अस्य । 'देवता' (६।२।१०१) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लोपः । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः ।
[पञ्चेन्द्राणी] पञ्चन् इन्द । इन्द्रस्य भार्या | 'वरुणेन्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः' (२।४।६२) डीप्र० - आनन्ते । इन्द्राणीमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र०→य । इन्द्राणीयतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । अप्रयोगीत् (१।१।३७) क्विप्लोपः । पञ्चेन्द्राण्यो देवता अस्य । 'देवता' (६।२।१०१) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लोपः ।
[पञ्चयुवती] पश्चन् 'युक् मिश्रणे' (१०८०) यु । यूयते इति युवा । 'लू-पू-यू-वृषि०' (उणा० ९०१) किद् अन्प० । स्त्री चेत् युवतिः । 'यूनस्तिः' (२।४।७७) तिप्र० । युवतिमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र०→य । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । युवतीयतीति क्विप् । 'अतः' (४।३।८२) अलोपः । “य्वोः प्वय्व्यञ्जने लुक्' (४।४।१२१) यलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । युवत्यो देवता अस्य । 'देवता' (६।२।१०१) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लोपः ।
[औपगवीत्वम्] गोः समीपं = उपगुः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । उपगोरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र०→अ | ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'अणजेयेकण्-नञ्-सञ्टिताम्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलोपः । औपगव्या भावः । 'भावे त्व-तल' (७।१५५) त्वप्र० ।
हरीतकी हरीतकी । हरीतक्याः फलं विकारोऽवयवो वा । 'प्राण्यौषधिवृक्षेभ्योऽवयवे च' (६।२।३१) अणप्र० । 'फले' (६।२५८) अणलोपः । अनेन डीनिवृत्तिः । 'गौरादिभ्यो मुख्यान्डीः' (२१४१९) ङीप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org